________________
६ भीष्म पर्व -२ सर्गः ]
बालभारतम् ।
भिन्नभूपमुखाम्भोजैः कर्णान्तोत्थशिलीमुखैः । भवद्भीमभीष्मा ढ्यैर्जगा हे वाहिनीद्वयम् ॥ १०६ ॥ ध्वनद्धन्वनदद्वाणं सत्त्वालंकारभासुरम् । सात्यकिः सुरनारीभ्यो रथिनामयुतं ददौ ॥ १०७ ॥ नीरन्ध्रयन्शरैः शत्रून्पलायनपरान्दिशः । तमरुद्ध ततो युद्धसूरिभूरिश्रवा नृपः ॥ १०८ ॥ युद्धाय धावतस्तत्र दश सात्यकिनन्दनान् । भूरिश्रवाः शरैश्चक्रे दिक्पालेभ्यो वलीनिव ॥ १०९॥ ततः प्रवृद्धवेगौ तौ वीरौ तरलितक्रुधौ । मिथः क्रियाभिर्विरथौ घुतासी समधावताम् ॥ ११० ॥ भुग्नाशा करिकूर्माहिवराहगिरितद्भारात् । तत्सत्यसत्त्वावष्टब्धं नामज्जद्भूतलं यदि ॥ १.११ ॥ भीमदुर्योधनाभ्यां तौ स्वरथाभ्यामथान्यतः । द्रानीतौ तत्तु मेनाते जीवनं निधनाधिकम् ॥ ११२ ॥ तदा तु सात्यकि सुतध्वंसक्रोधार्द्धनंजयः । धनंजयोऽभवद्धाम्ना क्रूरः कौरवकानने ॥ ११३ ॥ अब्दादिव महाशब्दाच्चण्डकोदण्डतोऽर्जुनात् । भूभृन्मौलिषु संतापं व्यधुः शम्पा इवेषवः ॥ ११४ ॥ तद्वाणपातव्यथिता पिण्डीभूय भवच्चमूः । इतश्चेतश्च लुलितैर्मृत्योः कवलतां ययौ ॥ ११५ ॥ इति निर्दम्भसंरम्भात्तदा जम्भारिजन्मना । अहन्यन्त सहस्राणि नृपाणां पञ्चविंशतिः ॥ ११६ ॥ ध्वजैः पल्लवितं रक्तैः पुष्पितं हारमौक्तिकैः ।
मौलिभिः फलितं राज्ञां तदा दुर्मन्त्रितं तव ॥ ११७ ॥
३०९
१.
●
'जवात् ' ख- ग. २. 'वैरौ' ख. ३. अर्जुन: ४. वह्निः ५. 'भूता' ख. ६. ‘द्यूतैः' ख-ग.
Aho! Shrutgyanam