________________
३०८
काव्यमाला।
किं त एव जयन्तीति निशि पृष्टः सुतेन ते । भीष्मो जगाद गां विष्णुमना विष्णुपदीनिमाम् ॥ ९३ ॥ खयंभुवा भुवो भारं निराक स्मृतः पुरा । गतः प्रत्यक्षतां तेन स्तुतो नारायणः प्रभुः ॥ ९४ ॥ विश्व विश्वेश विश्वात्मन्विश्वका?घ विश्वधीः । जय विश्वस्थिते विश्वक्षय विश्वोदय प्रभो ॥ ९५ ॥ ज्ञातृज्ञेयप्रभो ज्ञानज्ञप्त्रे तुभ्यं नमो नमः । भोक्तभोग्यप्रभो भोगभोके तुभ्यं नमो नमः ॥ ९६ ॥ ये जग्निरे त्वया नाथ दिवस्तोषाय दानवाः। भारयन्ति भुवं देवी मानवीभूय तेऽधुना ॥ ९७ ॥ पदं सुमेरुमौलिझैः पातालं पत्तलं पुनः। हर्तु तस्या भुवो भारं भगवन्भव मानवः ॥ ९८ ॥ वयं स्वयंभुवेत्युक्ते स श्रीनारायणः प्रभुः । नरेण सुहृदा सार्धे भेजे भूषणतां भुवः ॥ ९९ ॥ वासुदेवार्जुनीभूय ताभ्यां गुप्तो युधिष्ठिरः। जयत्येव स धर्मात्मा युक्तस्तेन समं शमः ॥ १० ॥ इति भीष्मगिरा भूपः प्रभावं भावयन्हरेः। आसाद्य सदनं वीरविनयैरनयन्निशाम् ॥ १०१॥ आपपात ततः प्रातर्भीमभीष्ममुखो मृधे । प्रवीरप्रकरः श्येनमकरव्यूहसंहतः ॥ १०२॥ कालक्रीडावने युद्धे व्यत्ययाद्वीरशाखिषु । यशःकुसुमशुभ्रेषु तदा पेतुः शिलीमुखाः ॥ १०३ ॥ बाणभिन्नेभकुम्भासृग्धाराभारैर्बभूव भूः । प्रेतप्रीतिकरी प्रेतपतिपुण्यप्रपेव सा ॥ १०४ ॥ न दन्तिघातजं रक्तं रुग्रक्तेयं रवेरिति ।
भ्रातरः कातरा धीरैर्वारयांचक्रिरे क्षताः ॥ १०५ ॥ १. 'ज्ञाताज्ञातप्रभो' ग. २. भ्रमरा; बाणाश्च. . . . . . . . .
-
-
Aho! Shrutgyanam