________________
३०७
भीष्मपर्व-२सर्गः] बालभारतम् । ___३०७
पार्थेनाथ रथस्थेन पृषत्केन हृदि क्षतः । वर्णिकां मरणस्येव मूळमाप सुयोधनः ॥ ८१ ॥ सेनापतिसुषेणाख्यौ जलसंधसुलोचनौ । भीममुग्रं भीमरथं भीमबाहुमलोलुपम् ॥ ८२ ॥ समं विवित्सुविकटौ दुर्मुखं दुष्प्रधर्षणम् । इमान्यमातिथीकृत्य तत्सुतांश्च चतुर्दश ॥ ८३ ॥ चतुर्दशसु विश्वेषु व्रजतां यशसामसौ । उच्चैः सहचरीचक्रे सिंहनादान्वृकोदरः ॥ ८४ ॥ (विशेषकम्) विषमास्त्रप्रगल्भेऽथ भगदत्ते समेयुषि । संचुकोच नवीनेव रामा भीमपताकिनी ॥ ८५ ॥ भीमोऽमूर्छन्ध्वजालम्बी विद्धस्तदिषुणा हृदि । घूर्णन्बभौ स्तम्भबद्धो मदान्ध इव सिन्धुरः ॥ ८६ ॥ खभटारूढदिग्दन्तिघटो मायी घटोत्कचः। तमिभस्थं सुरेभस्थस्ततस्तातक्रुधारुधत् ॥ ८७ ॥ तदत्रवृष्टिभिः शौर्यलताकन्दौ तदापतुः । उत्कर्ष भगदत्तश्च सुप्रतीकश्च तद्गजः ॥ ८ ॥ प्रणादैर्भगदत्तस्य सुप्रतीकस्य चाद्भुतैः । द्राग्नरेन्द्रा गजेन्द्राश्च बभूवुर्विमदास्तदा ॥ ८९ ॥ समुज्झितेव दिग्नागैर्घटोत्कचहृतैरिव । तदा तैमीतमाकान्ता सिन्धुमन्नेव भूर्वभौ ॥९० ॥ मायिनां रणराज्याय रक्षसां दिवसो निशा। इति मैमिभिया भीष्मोऽवहारं व्याहरजवात् ॥ ९१ ॥ न मृतास्तावदद्येति ध्यायन्तः कौरवा ययुः । श्वोऽप्यमून्हन्म एवेति स्मरन्तः पाण्डवाः पुनः ॥९२॥ (चतुर्थमहः)
१. रामापक्षेऽप्यर्थः स्फुट एव. २. 'नैशतमः कान्ता' ख.
Aho ! Shrutgyanam