________________
काव्यमाला ।
एवमाखण्डलौ चण्डशूरमण्डलखण्डिनि । दुर्गमं दुर्गमम्भोधिं बिम्बोऽम्बरमणेरगात् ॥ ११८ ॥ युद्धादप्यधिकं कष्टं कलयरक्तकर्दमे । उत्सुकोऽप्यगमद्धाम वीरवारः शनैः शनैः ॥ ११९॥ (पश्चममहः) पुनः प्रभाते संनद्धाः क्रुद्धाः कौरवपाण्डवाः । ते क्रौञ्चमकरव्यूहभाजो युयुधिरेऽधिकम् ॥ १२० ॥ विपक्षादागतेभ्योऽपि तीक्ष्णेभ्योऽपि भृशं मुखम् । ते मार्गणेभ्यस्तृणवद्दातारो वपुरप्यदुः ॥ १२१ ॥ समरेऽस्मिन्यमक्रीडातडाग इव खेलताम् । नाकर्षन्क्षतजं केषां जलौकस इवेषवः ॥ १२२ ॥ कोपाटोपारुणरुची पेततुर्भीमपार्षतौ । कुरुषु स्फुरदिष्वासभ्रवौ यमदृशाविव ॥ १२३ ॥ पीड्यमाना दृढं ताभ्यां प्रियदोामिव प्रिया । सिस्वेद च चकम्पे च संमुमोह च सा चमूः ॥ १२४ ॥ वाहिनीशोषणोदग्रं गजानीकैः सुयोधनः । भीममाच्छादयद्भानुं प्रावृट्काल इवाम्बुदैः ॥ १२५ ॥ नागैः सङ्गोऽस्तु नागानामितीव गदया गजान् । दृढमाहत्य कुम्भेषु भीमः क्ष्मायाममजयत् ॥ १२६ ॥ तेनोत्क्षिप्तेषु नागेषु त्रस्तमस्तकुतूहलैः । विमानभङ्गभीत्या तु दिवि देवैरितस्ततः ॥ १२७ ॥ दातुं दिग्दन्तिविश्रान्त्यै दिक्पालेभ्य इवामुना । धृत्वा करेण जीवन्तो दिक्षु चिक्षिपिरे द्विपाः ॥ १२८ ।। इत्युदस्तद्विपस्तोमं नृपस्तोमरवृष्टिभिः । भीममभ्यकिरकोपकृशानुः सानुजानुगः ॥ १२९ ॥
१.'तेषां ख.
Aho! Shrutgyanam