________________
२९६
काव्यमाला। कौरवैरपि विपिष्टदिगन्ताश्चक्रिरे किमपि कम्बुनिनादाः । नूनमम्बरगुणो न वो यैः प्रत्युत ध्वनिगुणं वियदासीत् ॥ ४९ ।। संमदध्वनिरतीव विरोधं बन्धुतां च दधतां भुजभानाम् । क्रोधतो न मदतो नु न जानेऽन्योन्यभेदमिलितैः कलितः खे ॥ ५० ॥ निश्चितागतरणोत्सवहृष्यद्भीमसेनकृतनादपयोधौ । व्यूहयोरुभयतः सुभटानां वेडसिन्धुभिरमज्यत ताभिः ॥ ११ ॥ विस्फुटीभवितुमुन्द्रमतान्तर्विक्रमेण रणविभ्रमभाजा । विस्फुरद्भिरिव बाहुभिरुचैः प्राचलन्नुभयतोऽथ भटौघाः ॥ ५२ ॥ . सादिनं हयचरो रथभाजं स्यन्दनी गजगतं च निषादी। पत्तिमप्यथ पदातिरवाप द्वन्द्वयुद्धमिति जातममीषाम् ॥ ५३ ॥ मन्नमन्यरदि नो रदयुग्मं कोऽपि संयति गजः प्रतिमाने । छिन्नमूलमिषुभिर्निजभर्ता बिभ्रदाप सुरसिन्धुरशोभाम् ॥ १४ ॥ तादृशं रणविलासमतन्वन्पर्यताडि शिरसि स्वरदेन । कोपिनेव परकुञ्जरहस्ताभ्युद्धतेन युधि कश्चन हस्ती ॥ ५५ ॥ कस्यचिद्रथिवरस्य न बाणा रक्तपानसुखमापुररीणाम् । तत्करस्फुटितघोरधनाटकृतिध्वनितनश्यदसूनाम् ॥ १६ ॥ सारसारथिजुषं तरलाश्वं स्यन्दनं हतपतिं निजपक्षे । कोऽपि मङ्घ विरथो रथभर्तारुह्य संयति जघान विरुद्धम् ॥ ५७ ॥ मादिनौ सपदि कौचन युद्धेऽन्योन्यवक्रवहदाहितभल्लौ । निर्व्यथं पुरत एव मिलित्वा चक्रतुः परहति क्षुरिकाभ्याम् ॥ १८ ॥ धावतः समितिहर्षितहेषं कश्चिदात्मतुरगस्य हृदेव । पातितेषु परसादिषु सद्यो न द्विषद्वधमहोत्सवमाप ॥ ५९॥ खण्डितैकचरणो विनिपातैः कोऽपि यान्तमहितं पदपातैः । धावितो युधि जघान मुहुर्भूस्थापितोद्भुतकरस्फुरकोटिः ॥ ६० ॥ अम्बरोत्पतनतः प्रपतन्तं वीरमुल्लसदसियुधि कंचित् । एकमप्युपरि वज्रशिलावन्मेनिरे भयपराः परवीराः ॥ ६१ ॥ १. 'रवौधैः' क.
Aho! Shrutgyanam