________________
६ भीष्मपर्व-१सर्गः] बालभारतम् ।
२९६ यत्त्वया सह पितामह योत्स्ये यच्छ तन्मयि जयार्थमनुज्ञाम् । एवमुद्रिति भूभुजि भीष्मः माह संयति यतस्त्र जयास्मान् ॥ ३६ ॥ नाव्रजेरिति यदि प्रधनान्तस्त्वां ततः क्षितिपमुख्य शपेयम् ।
औचितीचतुर संप्रति हृष्टः किं प्रियं तव वरं करवाणि ॥ ३७ ॥ इत्युदीरितगिरं गुरुमूचे प्राञ्जलिः कलितधीर्धरणीशः । प्रीतिमान्यदि ततः कथय त्वं तत्त्वतो निजवधार्थमुपायम् ॥ ३८ ॥ न म्रिये रणपरैरपि देवैराव्रजेः पुनरपीह कदाचित् । एवमुल्लसितवाचि स भीष्मे द्रोणमाप च ननाम च राजा ॥ ३९ ॥ भीष्मवत्कृतवचाः स च राज्ञे पृच्छते स्ववधबुद्धिमुवाच । हन्त हन्ति यदि कोऽपि रणे मां न्यस्तशस्त्रमिति मे मरणं स्यात्॥४०॥ अप्रियं यदि महन्महनीयात्त्वादृशादसमसत्य शणोमि । तत्त्यजामि रणसीमनि शस्त्रं तद्यतस्व विजयख च शत्रून् ॥ ४१ ॥ इत्युपायमनपायमवाप्य द्रोणतः कृपमगाजगतीशः । तं प्रणम्य च निशम्य च तस्मादाशिषं सपदि शल्यमगच्छत् ॥ ४२ ॥ भूपतिर्जयमतिः प्रणिपातप्रीतिभाजि वरदायिनि शल्ये । प्राच्यमद्रढयदेव तदेवोद्योगकर्मणि वचः प्रतिपन्नम् ॥ ४३ ॥ कर्णमर्णवसुतारमणस्तु द्राग्जगाम च जगाद च हृष्टम् । युध्यसे न खलु जीवति भीष्मे तत्र पातिनि पुनः स्फुरितव्यम् ॥४४॥ तद्वचोमतविधायिनि राधानन्दने हरिरवाप धरापम् । पाण्डुसूनुरवदत्पुनरस्मान्यो वृणोत्यरिबले वृणुमस्तम् ॥ ४५ ॥. बुद्धिधाम तव भूप सुतानां दुधियामपरमातृकबन्धुः। शिश्रिये तमथ मङ्घ युयुत्सुस्त्यक्तबान्धवबलः स्वबलेन ॥ ४६॥ धीनिधे जय जयेति जगद्भिः स्तूयमानचरितोऽथ पृथाभूः । सैन्यमाप्य निजमादृतवर्मा युद्धकर्मणि रथी प्रवणोऽभूत् ॥ ४७ ॥ दध्मुरुद्धररवानथ शङ्खानर्जुनप्रभृतयो रथभाजः । खैर्गुणैरपि तदा विहसद्भिर्दीर्यमाणमिव खं विरराज ॥ ४८॥
Aho! Shrutgyanam