________________
२९४
काव्यमाला ।
व्यूहयुग्ममिदमद्भुतमाप्तं तैर्भटैरभवदुद्भटघोरंम् । नूनमुल्लसितकेतुकराग्रैराहवाय मिथ आह्वयमानम् ॥ २४ ॥
हाटकीयपटुकङ्कट पिङ्गे ते बले चलदुकूलपताके । रेजतुर्युगभिदेऽद्भुतजिह्वावौर्वरौद्रदहनाविव दीप्तौ ॥ २१ ॥ संभ्रमप्रसृतदृष्टिचलौष्ठं हुंकृतीरकृत यद्भवर्गः ।
तद्ध्रुवं मुहुररातिजयश्रीकृष्टिमन्त्रमिह गुप्तमपाठीत् ॥ २६ ॥ अग्रतो रिपुषु विस्फुरितेषु क्रोधिनामिह वधोत्कभुजानाम् । शत्रुतः प्रभव एव भटानां भेजिरे मृधविधावदिशन्तः ॥ २७ ॥ तत्र राजतरथः सितवर्णोष्णीषवर्मतुरगः कुरुवृद्धः । हेमनद्धसितपञ्चशिखाभृत्तालकेतुरभवन्मृधमूर्द्धा ॥ २८ ॥ अर्जुनो रिपुपदानथ पश्यन्संगरे गुरुपितामहबन्धून् । बाष्पपूरममुचन्नयनाभ्यां शस्त्रमण्डलमैथाशु कराभ्याम् ॥ २९ ॥ तं कृपामयमपाभयशक्तिर्मन वीक्ष्य चकितो हरिरूचे । आयुधंधर भेट स्मर योगं कोऽपि कस्यचिदपीह न किंचित् ॥ ३० ॥ इत्युदीर्य परमं निजरूपं विश्वरूपमयमेव मुरारिः । उद्भवप्रलयतत्परजन्तुव्रातसंकुलमदीदृशदस्मै ॥ ३१ ॥ वाग्निदर्शनवशादिति दैत्यद्वेषिणा विरचितप्रतिबोधः । संस्मरन्नवमिवारिषु वैरं चापमाप विजयी यमरौद्रः ॥ ३२ ॥ अर्जुने रणरसस्मृति यावत्पाण्डवाः किलकिलां कलयन्ति । तावदुज्झितशरासनवर्मा धर्मसूरवततार स्थान्तात् ॥ ३३ ॥ कायमायतभुजेषु परेषु क्रोधिषु व्रजति संप्रति राजा । विस्मयं दददिति स्वभटानां सोदरैः सह जगाम स भीष्मम् ॥ ३४ ॥ भीष्ममाप रिपुरेष शरण्यं कौरवा जयरवानिति चक्रुः । आदधौ क्षितिपतिस्तु जयश्रीलम्भकं शिरसि भीष्मपदानम् ॥ ३९ ॥
१. ‘घोषं' ख २. ‘रुद्रतपना' ख. ३. 'तोपि रिपुषु स्फुरितेषु' ख. ४. 'मिवाश्रु' क. ५. 'नर' ग. ६. 'अर्जुनेन रणसंस्पृशि' ख. ७. 'स्म' ख.
Aho ! Shrutgyanam