________________
२९२
काव्यमाला । भीष्मपर्व।
प्रथमः सर्गः। यत्र भात्यनपवृत्तनिवेशः कालदेशपिहितोऽपि पदार्थः । वैभवानि भुवि भारतकारज्ञानतत्त्वमुकुरः स करोतु ॥ १ ॥ पुण्यधाम्नि कुरुवर्षपृथिव्यां बालवृद्धपरिसेवितदिक्षु । प्रोद्यतेष्वथ नृपेषु बभाषे श्रीपराशरसुतो धृतराष्ट्रम् ॥ २ ॥ दिव्यमक्षि वितरामि तवेदं पश्य युद्धमिति वाचि मुनीन्द्रे । सौबलीपतिरुवाच कुलस्य प्रक्षयं न खलु वीक्षितुमीशे ॥ ३ ॥ संजयाय समरावधि दत्त्वा दिव्यमक्षि सहसाथ महर्षिः। सर्वमेष कथयिष्यति तुभ्यं भूपतेरिति निवेद्य तिरोऽभूत् ॥ ४ ॥ संजयोऽथ रणसीमनि गत्वा गत्यखिन्नमनसः क्षितिभर्तुः । मन्दिरोदरगतस्य पुरस्ताद्वक्तुमारभत वीरविनाशम् ॥ ५ ॥ राजराज शृणु यो विषमस्थः संगरादथ गतः स न वध्यः । संविदं मिथ इति प्रतिपद्य क्ष्माभृतो रणभराय विनेदुः ॥ ६ ॥ सेनयोस्तदुभयोरभयैकभ्राजमानमनसः शिबिरेभ्यः ।। प्राचलन्भुजभृतो युधि योधा मूर्तिमन्त इव विक्रमभेदाः ॥ ७ ॥ अद्भुतं रणरसे मधुरत्वं पश्य यस्य रसनाय समुत्काः । नैकवेलमसृजन्नुपरुद्धाः सुभ्रुवामधरपानमभीष्टम् ॥ ८॥ युद्धतूर्यनिनदैबलवद्भिर्द्राग्विजित्य रुदितान्यबलायाः । विस्मृतस्मररसो रणरौद्रः कश्चिदाशु चकृषे वरवीरः ॥ ९ ॥ कोऽपि वीरमुकुटः परिरभ्य प्रेयसीमुरसिनद्वयसङ्गात् । संस्मृतप्रधनकुञ्जरकुम्भो मङ्घ वीररसमूर्तिरचालीत् ॥ १० ॥ असि वीररमणीति रमण्यामस्मि वीरजननीति जनन्याम् । संमदं विदधदुत्सुकचेतास्तारतूर्यतरलश्चलितोऽन्यः ॥ ११ ॥
१. 'शेषित' ख. २. 'मनसा' ख. ३. 'मुक्ताः ' क-ग.
Aho! Shrutgyanam