________________
५उद्योगपर्व-५सर्गः]
बालभारतम् ।
२९१
पदाङ्गुलीमिर्युधि केऽपि केऽपि कराङ्गुलीभिर्युधि चूरणीयाः । । घात्या द्विषोऽमी शतमित्यमर्षात्कृष्णासुतैः पञ्चभिरप्यभाषि ॥ ११३॥ .. सृष्टं स्वयं शत्रुषु दीर्वमायुः क्षणादिवापूरयितुं प्रवृत्तः । बभ्रुः क्रुधा विभ्रमदुग्रवेगादृशौ निशाघरविवर्तहेतू ॥ ११४ ॥ यथा प्रकोपेन जटासुरारिश्चपेटयाताडयदूरुमूरुम् । भियेव तद्धानभुवा म्रियेरन्समीपतः स्युर्यदि धार्तराष्ट्राः ॥ ११५ ॥ जिह्वाञ्चलोऽराजत सृञ्जयस्य किंचिद्विवक्षोः प्रसृतास्यलोलः । प्रत्युत्सुकः शत्रुकुलानि दग्धुं निर्यन्हृदो मूर्त इव प्रकोपः ।। ११६ ॥ यमौ जगत्प्राणसमीर पानस्फीताविवोष्टौ यमपन्नगस्य । प्रदर्शयामासतुराशु खड्गनिहाद्वयं द्यामिव लेलिहानम् ॥ ११७ ॥ भूमि परां प्राप्यत फाल्गुनेन भूर्भालरन्ध्रे प्रकटं नटन्ती । नटीव वैरिव्ययनाटकैकनटस्य गाण्डीवशरासनस्य ॥ ११८ ॥ तेषां प्रकोपस्य विकस्वरस्य द्विषन्नमेधक्रतुपावकस्य । जाननुलूकः प्रथमाहुतिं खं त्रस्तो नृपभ्रूलवसंज्ञयैव ।। ११९ ॥ द्वेषादेष निमेषतोऽहमखिलां द्विट्संहति संहरे
प्राप्यैकस्य हरे रणोत्सवनवोत्साहाय साहायकम् । इत्यने नृपमुग्रवाचि विजयिन्यभ्युत्थिते निर्भर
वीरेन्द्राः समनीनहन्समममी सेनां रसेनाञ्चिताः ॥ १२० ॥ भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मतार्हस्थितैः
पादाजभ्रमरोपमानममरो नाम व्रतीन्दुः कृती । मोहद्रोहिणि बालभारतमहाकाव्ये शमं पञ्चमं तबोधाम्बुधिमौक्तिकस्रजि ययौ पर्वेदमौद्योगिकम् ॥ १२१ ॥
सगैः पञ्चभिरुद्योगपर्वण्यस्मिन्ननुष्टुभाम् ।
पञ्चविंशतियुक्तानि निश्चितानि शतानि षट् ॥ इति श्रीजिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचिते बालभारतनानि महाकाव्ये वीराङ्के उद्योगपर्वणि समरसमारम्भो नाम पञ्चमः सर्गः ।
__इत्युद्योगपर्व समाप्तम् ॥ १. रटन्ती ' क.
-
Aho! Shrutgyanam