________________
२९०
काव्यमाला।
संपृच्छमाने नृपतौ निवेद्यमानेषु भीष्मेण महारथेषु । उक्तोऽङ्गभर्तार्धरथीति कोपात्प्राची प्रतिज्ञा पुनराबबन्ध ॥ १०० ॥ उलूकनामाथ सुयोधनेन दूतो नियुक्तः समरोत्सुकेन । कोपाग्निकीलाकटुभिर्वचोभिः सभागतं धर्मसुतं बभाषे ॥ १०१ ॥ राजनरणं कस्य बलेन कर्तुमुत्कोऽसि साकं कुरुकुञ्जरेण । न द्यूतमेतद्विजितः क्षणेऽस्मिन्न यासि जीवन्सह बन्धुभिः स्वैः॥१०२॥ जीवन्त्रजाशु त्यज युद्धबुद्धिं मिष्टान्नभोजी भव सर्वदापि । विराटभूपौकसि सूपकारभूतस्य भीमस्य करप्रसादात् ॥ १०३ ॥ किरीटिकोदण्डगुणाग्रधूततूलालिसंपादितसूत्रजातिः । विप्राकृतेस्तत्र नवांशुकानि ददाति साध्वी विशदानि कृष्णा ।।१०४॥ निश्चिन्तमेवं कैशिपुस्तवास्ति मा मृत्युदूती भज राज्यचिन्ताम् । इमानपि श्रीपतिसात्वतादीन्कि कालभोज्यं कुरुषे विमूढ ॥ १०५॥ अथो रथाश्वेभनृवाहनाधिरोहस्पृहा काचन ते चकास्ति । तद्दासतामाशु सुयोधनस्य भज स्वयं सेवककामधेनोः ॥ १०६ ॥ इत्यस्य वाग्भिः स्फुटनिष्ठुराभिर्भुजाभृतां कोपकुटुम्बितानाम् । अक्षणां द्युतिः कौरवकालरात्रिसंध्येव मध्येजगदुदिदीपे ॥ १०७ ॥ क्रोधज्वलच्चक्षुरभीशुभिन्नाः कनीनिकांशुप्रकरा न केषाम् । दूतेऽत्र पेतुः प्रलयानलाचि टालकालायसदण्डचण्डाः ॥ १०८ ॥ हस्तेन चेदिक्षितिपः शतघ्नीमुदास घात्याः शतमित्यमर्षी । स्थाप्याश्च पञ्चेति महीं महाभिघातेन चक्रेऽङ्गुलिवातचिह्नाम् ॥१०९॥ यं धृष्टकेतुः स्फुटितस्फुलिङ्गं कुधा कृपाणं दशनैर्ददंश । उप्रैक्षि कैर्नास्य सभाभ्यवर्ती(?) हद्दीप्तशौर्यानलधूमदण्डः ॥ ११०॥ क्रोधात्तथा क्रौर्यमधत्त धृष्टद्युम्नो यथास्य प्रतिबिम्बदम्भात् । कृष्टासिवर्ती पुरतो बभूव किं किं करोमीति यमोऽपि कैम्प्रः ॥१११॥ विवर्तयंश्चक्रमिवाक्षितारामारोपयंश्चापमिव भ्रुवं च ।। तुलां तदागाहत मातुलस्य पितुश्च मन्युप्रवणोऽभिमन्युः ॥ ११२॥ १. भूपस्य च' ख. २. 'कशिपुर्भक्ताच्छादनयोरेकोक्त्या पृथक्तयोः पुंसि' इति मेदिनी. ३. 'केनास्य स नास्यवर्ती' ख-ग. ४. 'प्रदीप्त' ख. ५. 'दीप्रः' ख.
Aho! Shrutgyanam