________________
५उद्योगपर्व-५सर्गः] बालभारतम् ।
२८९ न सैनिकस्त्वं कुरुपाण्डवानां धनुर्भूतां काल इवात्तदेहः । कुतः समेतोऽसि ममाभिधेहि कुलाभिधानागमकारणं ते ॥ ८७ ॥ चापेन भीमेन नगोपमेन देहेन जाने प्रधनैकधुर्यम् । मञ्चेतसीदं कुतुकं विधत्ते नान्यायुधत्वं विशिखत्रयं ते ॥ ८८ ॥ देवारिणाथो जगदे मुरारिरवेहि मां माधव माधव त्वम् । बलोत्कचाख्यं भृगुलब्धविद्यमुद्यद्भटौवाहवद्रष्टुकामम् ॥ ८९ ॥ कीनाशसद्मातिथिमाहवे यं कर्तुं समीहे जयमादितेयैः(१)। चापोद्गतेनैकशरेण तस्य विधेमि(?) चिहं मरणस्य देहे ॥ ९० ॥ अस्वन्तकं चान्यममुं शरं मे वक्ति प्रजासंयमनो यमोऽपि । पराक्रमोऽयं च पराजितस्य चमूपतेः साह्यविधौ प्रगल्भः ॥ ९१ ॥ एवं यदि स्यात्सुपराक्रमं त्वं शीघ्रं मधो दर्शय विष्णुरूचे । त्रैविक्रमं रूपमवाप्य तावद्वाणेन पादप्रतलेऽङ्गितोऽजः ॥ ९२ ॥ अन्यच्छराकृष्टिपरो निरुध्य प्रोक्तो व्रणुब्देक्षि(?) वर ह्यजेन । क्षीबस्तदेवार्थमथोत्तरत्वं सोऽपि प्रतिच्छन्द इवाबभाषे ॥ ९३ ॥ त्यज स्वदेहं शिरसामरत्वं मम प्रसादेन लभस्व सत्याम् । दैत्येन्द्र वाचं परिपालयाशु द्रष्टात्र यत्कारणमागतोऽसि ॥ ९४ ॥ जना धरण्यां तव भक्तिभावैः पूजां करिष्यन्ति वरप्रदोऽस्तु । तेषां महाभाग मम प्रसादान्मुक्ति परां प्राप्स्यसि चान्यकल्पे ॥९५ ॥ इत्युक्तिभाजे हरये सुरूपं छित्त्वोत्तमाङ्गं प्रददौ सुरारिः।। व्योमैकदेशेऽमरतां विधाय मुरारिणाधारि विभासमानम् ॥ ९ ॥ त्वं मां शरण्यं वद तद्भजे त्वामेवं वदन्पार्थसुयोधनाभ्याम् । निराकृतो रुक्मिनृपस्तदानीमक्षौहिणीशः स्वपुरं जगाम ॥ ९७ ॥ सुयोधनो योधवरानथोचे कालेन को वः कियता सकोपः। अक्षौहिणीः सप्त तपःसुतस्य जेतुं समर्थः समरातिरेकात् ।। ९८ ॥ खं त्रिंशता शान्तनिकुम्भयोनी कृपस्तु षष्टया दशभिः कृपाभूः । कर्णो दिनैः पञ्चभिरस्य वैरिक्षये समर्थ कथयांबभूवुः ।। ९९ ॥ १. 'शान्तन' क-ग.
-
-
Aho! Shrutgyanam