________________
२८८
काव्यमाला |
प्रदीपनैस्तत्र तदात्वदीतैस्तापः पृथिव्या निविडोऽभविष्यत् । न चेत्तदा संचलतां हयानामिहापतिष्यन्नयनोदकानि ॥ ७९ ॥ देवत्रतद्रोणकृपैर्महद्भिः समं चलद्भिः बहुशाखलीनैः । पदे पदे दुःशकुनैरिवायं निवार्यमाणोऽपि चचाल मूढः ॥ ७६ ॥ विभग्नचक्राः परिभूतसूता विलीनयोक्रायुतरश्मयोऽपि । युद्धोद्धरे भद्वय रौद्रनादत्रस्तैरकृष्यन्त रथास्तुरङ्गैः ॥ ७७ ॥ चेलुस्तदा निश्चितमृत्यवोऽग्रे मा यात पश्चाद्धजतेति मन्ये । संकेत्यमाना अपि संमुखीनमरुच्चलैः केतुपटैर्भटौघाः ॥ ७८ ॥ एवं बलैर्मानमिव ग्रहीतुं भोगोचितायां भुवि विस्तरद्भिः । आनन्द्यमानः स महाभिमानः प्रापत्कुरुक्षेत्रमही महीशः ॥ ७९ ॥ रङ्गत्तुरङ्गोर्मिरिमाब्दशोभीस्थूलाद्विशाली ज्वलितायुधौर्वः । भूभृद्वलौघोऽयमदृष्टपारस्तस्थावकूपार इवेह गर्जन् ॥ ८० ॥ नोच्छेदनीया मम पाण्डुपुत्रा भेत्स्यामि योधानयुतं दिनेन । इदं वदन्सिन्धुसुतोऽभिषिक्तः सेनापतित्वेन सुयोधनेन ॥ ८१ ॥ शिनिप्रवीरो मगधेशधृष्टद्युम्नौ विराटद्रुपद शिखण्डी । चेदीश्वरश्चेति तपःसुतेन स्वे सप्त सेनापतयोऽभिषिक्ताः ॥ ८२ ॥ लेभे हरिः स्वीकृतसारथित्वं प्रीतोऽर्जुनः सर्वचमूपतित्वम् । इत्यष्टभिः स्वैः स वृतो रराज ग्रहैग्रहाधीश इव क्षितीशः ॥ ८३ ॥ एवं रोत् बलयोर्द्वयेऽस्मिन्खेदं स्वकुल्यव्यसनेन विभ्रत् । धार्मि तदापृच्छय जगाम रामः सरस्वतीतीरगतीर्थवीथीः ॥ ८४ ॥ [क्षैमाकमित्रोव सागरं तं पत्तिर्निषङ्गी कवची धनुष्मान् । अङ्गीव कोपः प्रबलोत्कचाक्षो ह्यगाद्रणोत्कण्डमनात्रि (स्त्रि) वाणः ॥ ८५॥ अदृष्टपूर्वं रमणो रमाया विलोक्य तं विस्मयमानचेताः । जगाद वाचं विनयावतंसां विलोकमानेषु सुतेषु पाण्डोः ॥ ८६ ॥
१. 'भटैर्म' ख. २. 'निशिप्रवीरा' ख. ३. इत आरभ्य द्वादश श्लोकाः ख-ग-पुस्तकयोखुटिताः.
Aho ! Shrutgyanam