________________
५ उद्योगपर्व - ९ सर्गः ]
बालभारतम् ।
किं चात्मनः स्वप्ननिमित्तदिष्टं जानामि मृत्युं पुनरस्मि धन्यः । मातः प्रयाणावसरेऽद्यं यत्त्वं तीर्थानि सर्वाण्यपि वीक्षितासि ॥ ६३ ॥ इदं वदन्मातृपदं प्रणम्य कर्णः प्रयाणाय दिदेश सैन्यान् । कुन्ती च सूनोर्वचनेन हर्ष दुःखं च दीर्घ दधती जगाम ॥ ६४ ॥ अथोरुवात्योद्धतधूलिरुग्णदृग्वारिदुष्यञ्जलपूर्णकुम्भः ।
कुरुप्रभोर्विस्मृतमन्त्रशून्यं यात्राभिषेकं विदधे पुरोधाः ॥ ६१ ॥ अस्मिन्नसत्यत्वभयेन नूनमनिर्यतः स्वस्त्ययनस्य मन्त्रात् ।
प्रसह्य कर्षन्खिदयेव भिन्नस्तदा द्विजानां धनिराप मान्द्यम् || ६६ || जेता भवान्वैरिपरम्पराभिः सुदुस्तरेऽस्मिन्समरे ससैन्यः । ततश्चिरं तापकशूर भेदपरायणः प्राप्नुहि गां सबन्धुः ॥ ६७ ॥ आशीर्वचोभिर्विपरीतबोधक्लिश्यद्विदग्धैरिति मागधानाम् ।
मुग्धः प्रमोदं दधदन्धजन्मा रथं मृतेर्गेहमिवारुरोह ॥ ६८ ॥ ( युग्मम् ) तनोति दुष्टत्वततीरतीव यः स स्फुटं पूर्वजपातहेतुः ।
अतः पपातादिपुमानमुष्य च्छत्रापदेशेन दिवो भुवीन्दुः ॥ ६९ ॥ कुमारिका मौलिगपूर्णकुम्भा शुभार्थमानीयत सन्मुखं या । इयं स्खलित्वा पतिता जयश्रीरिवायतस्तारतरं रुरोद ॥ ७० ॥ अस्मिन्नकल्याणमरातिवीर महाप्रहारैर्भवितेति भीतः । विमुच्य मूर्धानममुष्य राज्ञः पपात कल्याणमयः किरीटः ॥ ७१ ॥ आसन्न मार्जाररणोग्रनादभियस्तदा दीपधरस्य हस्तात् । कम्प्रादपाति क्षितिपप्रतापवीजत्विषा मङ्गलदीपकेन ॥ ७२ ॥ उन्मत्तकारूत्कटदण्डपातस्फुटत्पुटोत्थः कटुजर्जरश्रीः । जयश्रियः क्रन्दितवत्तदाभूत्प्रयाणशंसी पटहप्रनादः ॥ ७३ ॥ तदाचलद्भिः समराय नागैर्न्यस्तं स्वसर्वस्वमिव प्रियासु । मदाम्बु रोलम्बकदम्बचुम्ब्यमाविर्बभूव द्विरदीषु भूरि ॥ ७४ ॥
२८७
१. ‘यदि त्वम्' ख. २. 'वैरिपरम्पराभिः सुदुस्तरेऽस्मिन्समरे ससैन्यो भवाञ्जता । कर्तरि लुट् । ततः संतापदायो धमारणपरायणः सबन्धुश्विरं पृथ्वीं प्राप्नुहि' इति मागधविवक्षितोऽर्थः । 'वैरिपरम्पराभिः कर्त्रीभिर्भवाञ्जेता । कर्मणि लुटू । सूर्यमण्डलभेदनपरायणी मृतो गां स्वर्गम्' इति दुर्योधनावगतोऽर्थः ३ श्लोकद्वयमुत्तरश्लोकतः पश्चात् ख ग.
Aho ! Shrutgyanam