________________
२८६
काव्यमाला।
गुरुन जागर्तु ममेत्यकम्प्रः केयं व्यथेत्याकलयामि यावत् । विनिर्ययौ वज्रमुखोऽष्टपादस्तावत्क्षतोरुर्मणुकाक्षकीटः ॥ १० ॥ गुरौ मदूरुक्षतजोर्मिसङ्गतन्द्रालुनिद्रेऽथ वितन्द्रकोपे । किमेतदित्यालपति स्वमङ्गं खादन्मयादर्शि स वज्रतुण्डः ॥ ११ ॥ दृष्ट्वाथ दृष्ट्या सरुषा स कीटो भस्मीकृतस्तेन तपोधनेन । दिव्यां दधानस्तनुमस्तदोषः पुरो गुरोः कोऽपि नमन्नुवाच ॥ १२ ॥ दैत्योऽस्मि भत्सु(तु) गुतो महर्षे/शापराधः खलु शापमाप । त्वदर्शनानुग्रहमुक्तकीटयोनिः स्फुरामीति तिरोदधेऽसौ ॥ १३ ॥ क्रुधाभ्यधान्मामथ कोपधामव्याधामधामाक्षि दधन्मुनीन्द्रः । रे क्षत्रगोत्र क्षतितोऽप्यकम्प्रो विप्रोऽसि न त्वं क्व नु तस्य सत्त्वम्॥१४॥ निर्माय मायामिति कामितास्त्रविद्यानवद्या शठ ही गृहीता । महाम्बुदे व्योमनि सोममूर्तिरिवोज्ज्वलापि त्वयि निष्फलास्तु ॥ ५५ ॥ प्राप्तं त्वया ब्राह्मणमायया यद्ब्रह्मास्त्रमेतत्तदहो महाजौ । मृत्योदिने द्वेषिहतिप्रयुक्तं विनाशमेष्यत्यकृतार्थमेव ॥ १६ ॥ इत्यत्र तादृग्गुरुसेवयापि तापाय शापोऽजनि नास्त्रशक्तिः । अभाग्यभाजां व्यवसायकर्म महन्महत्यै विपदे प्रदिष्टम् ॥ १७ ॥ किंचाटवीयायिषु पाण्डवेषु स्वप्ने सवित्रा निशि वारितोऽपि । इन्द्राय विप्रेन्द्रतयार्थिनेऽहि ते कुण्डले तत्कवचं ददेऽहम् ॥ ५८॥ गलिष्यति मा समरे रथानी शापात्तथास्त्रं प्रभविष्यति छ । विद्वेषिणां संमुखभानुकल्पं तदम्ब ताटङ्कयुगं ययौ मे ॥ १९ ॥ गतं च तद्वर्म सकोपशकक्षिप्तेन नूनं पविनाप्यभेद्यम् ।। तत्कर्मणा केन मया स जिष्णुर्जेयो जितः संयति येन रुद्धः ॥ ६ ॥ छित्त्वा श्रुती स्वे स्वतनुं च भित्त्वा तदा तु मे कुण्डलवर्मदातुः । सत्त्वेन तुष्टो हरिरेकवीरच्छिदं ददौ शक्तिमियं ममाशा ॥ ६१ ॥ न सापि शक्तिः प्रभवत्यवश्यं पार्थे कृतार्थे हरिमन्त्रितेन । तत्सर्वथा सर्वजितोऽनुजा मे दशापि जेष्यन्ति भुर्दिशोऽमी ॥१२॥ १. 'गोत्र' ख-ग.
Aho! Shrutgyanam