________________
५ उद्योगपर्व - ५ सर्गः ]
बालभारतम् ।
थूथुकृतं त्वद्व एव यो वः षण्णां विपक्षोऽञ्चतु पञ्चतां सः । ज्येष्ठस्य ते धर्मसुतादयोऽपि भवन्तु भूपस्य भुजिष्यरूपाः ॥ १३ ॥ त्वय्यागतेऽस्मासु बलेन कस्य मृधं विधातापि सुयोधनोऽपि । इत्याप्य संधिं परिपात वत्सास्त्वं च क्षितिं पञ्च च ते शतं च ॥ १४ ॥ अथाङ्गजः स्माह रथाङ्गबन्धोर्मा मेति वोचः कुविचारमम्ब । अद्यास्तम मयि निष्कुलोऽयमीदृग्जनोक्तिस्तव लाञ्छनाय ॥ १९ ॥ मदेकविश्रम्भधनं विहाय दुर्योधनं युद्धधुरीणमद्य |
सुते मयि द्वेषिपरे न धत्तां शशीव शूरोऽपि कलङ्कपङ्कम् ॥ १६ ॥ भयान्न चाविष्कृतसोदरत्वात्कर्णः श्रितो युद्धभयेन पार्थान् । इत्युक्तिभिः कौतुकिनां जनानामवीरसूर्मा भव वीरमातः ॥ १७ ॥ युधिष्ठिरं सत्यगिरं प्रतिज्ञानिर्वाहबन्धूनपरांश्च बन्धून् । लज्जे श्रयन्संयति कौरवेभ्यः श्रियं ददामीति मृषाप्रतिज्ञः ॥ १८ ॥ तुङ्गाभिमानः कृपकुम्भयोनिपितामहद्रौणिमहासहायः ।
२८३
विनापि मां कोपनिधिः स धीरः पक्षद्वयेऽपि क्षयकृन्नरेन्द्रः ॥ १९ ॥ मातर्वयं किं तनयाः षडेव न ते शतं किं तव देवि पुत्राः । मुक्ता स्वकुल्य व्यसने शतं तान्पञ्चाश्रयेऽहं किल को विवेकः ॥ २० ॥ इति प्रवीरव्रतधीरवाचमुवाच हृष्टा तनयं सतीयम् ।
साधूदितं त्वज्जनकः स कर्मसाक्षी जगच्चक्षुरितोऽस्तु तुष्टः ॥ २१ ॥ स्थिरप्रतिज्ञं श्रितवीरधर्मे याचे पुनः किंचिदहं मुहुस्त्वाम् । स्थिरश्चिरं तिष्ठ सुहृत्सु वत्स यच्छाभयं किं तु निजानुजेषु ॥ २२ ॥ पृथामथावोचत मान्सूनुः कथं वृथा मामिति याचसेऽम्ब । त्वदङ्गजानामभयं भयं न प्रागेव दैवेन रणे प्रदत्तम् ॥ २३ ॥ मातर्महोत्पातततिः पुरे नः प्रतिक्षणं कौरवभैरवास्ति । तप्तो निशीन्दुः कुरुपूर्वजः स्यात्कुधेव दुर्योधनदुर्नयस्य ॥ २४ ॥
१. 'अपास्त' ख. २. 'निर्बलो' ख. ३. 'शूरश्चारुभटे सूर्ये' इति विश्वात्तालव्यादिपि सूर्यवाची. ४. 'स्मितप्र' क. ५. 'त्वम्' ख- ग.
Aho ! Shrutgyanam