________________
२८२
काव्यमाला।
पञ्चमः सर्गः। सदा हृदन्तःस्फुरितस्य विष्णोविस्तारणीभिर्द्धतिधोरणीभिः । रोमावलीद्वारविनिःसृताभिरिवासितः सत्यवतीसुतोऽव्यात् ॥ १ ॥ इतो निषिद्धोऽपि नदीजमुख्यैर्दुर्योधनोऽधत्त धियं प्रयाणे । मतङ्गजस्तुङ्गनगेन्द्रशृङ्गात्पतल्लताद्यैरपि रुध्यते किम् ॥ २ ॥ पथ्यं वचो बाल इवातुरोऽयं क्रूरो न गृह्णाति सुयोधनो नः । रणे प्रवृत्ते कुरुपाण्डवानां भूमिर्भविष्यत्यखिलापि नैषा ॥ ३ ॥ इति प्रणीतां विदुरेण वाणीमाकर्ण्य कुन्ती कलितोरुचिन्ता । ततस्त्रिमार्गापुलिने दिनेशसूनुं दिनेशस्तुतिलीनमागात् ॥ ४ ॥ (युग्मम्) आपृष्टतापादुदयन्तमकै राधेयमाराधयितुं प्रवृत्तम् । प्रतीक्षमाणा सुतवत्सलासौ तापार्तिताम्यत्तनुरत्र तस्थौ ॥ ५ ॥ कर्ण जपान्तेऽथ पृथेत्यवोचत्कन्यात्वजातस्तनयोऽसि मे त्वम् । देवः सहस्रांशुरसौ पिता ते प्रभूतधाम्नो न पुनः स सूतः ॥ ६ ॥ देवेन साक्षादविणाप्यमुष्मिन्ननूदिते तद्वचने दिवोऽन्तः । रोमाञ्चितस्तीर्थशतानि जानन्पदानि कर्णोऽथ ननाम मातुः ॥ ७ ॥ निजानियुग्मानत मूर्ध्नि कर्णे द्राक्प्रस्नुवानास्तनयोः पयांसि । वत्स स्वमूर्धानमितो विधेहीत्युवाच कुन्ती स्रुतसंमदाश्रुः ॥ ८ ॥ जगाद कर्णः किमितः करोमि मातः शिरः खं यदि हा पतन्ति । जितद्युकुल्यास्त्रिजगत्यतुल्यास्त्वत्क्षीरधारा धुतपापभाराः ॥ ९ ॥ स्तन्यानि धन्यास्तव ते निपीय मत्सोदरा विश्वजितो बभूवुः । धन्योऽहमप्यद्य महाप्रभावैर्मातर्यदेतैरधुनाभिषिच्ये ॥ १० ॥ अथैकवारं यदि पायितः स्यां मातः पयस्तद्भुवि केन जीये । न पायितः साधु मृधे जयन्तु पञ्चापि मत्पञ्चतया कनिष्ठाः ॥ ११ ॥ इत्युक्तिभाजं नतमङ्गराज कुन्ती कराभ्यां तमुदस्य सद्यः । दृगम्बुधौते परिचुम्ब्य मूर्ध्नि दीनाननं नन्दनमित्युवाच ॥ १२ ॥ १. 'वचसीश्वरीभिः' क. २. 'लतौघैः' ख.
Aho ! Shrutgyanam