________________
५उद्योगपर्व-४ सर्गः] बालभारतम् । विपरिवर्तरयोर्धमुखाञ्जयः क्षणमतिप्रचलत्वभृतो हयाः । स्फटिककुट्टिमकान्तिनि सैकते रवितुरङ्गमबिम्बनिभा बभुः ॥ ४३ ॥ चिररजोलुठनैर्मलिनं श्रियः सुतमपि द्रुतमङ्कमुपागतम् । स्वयमेसिस्नपदेव सरस्वती स्व इव भाति परोऽपि सतां श्रितः ॥ ४४ ॥ अपि तनूषु न भेदमदीदृशन्मधुरधीरगभीरमधुध्वनिम् । चपलतैकपराः परिरेभिरे लहरयो हरयोऽपि परस्परम् ॥ ४५ ॥ अवतरन्तममुं सरितो हरिप्रकरमाशु विलचितरोधसम् । लहरिपूरमिवैक्षत दूरतश्वलितमुच्चमियं चकिता चमूः ॥ ४६॥ पुरुषमानपटू कृतकीलकव्यतिकरग्रथिताजिनवल्लिषु । करयुगान्तरिता परितो हयावलिरबध्यत बल्लवपालकैः ॥ ४७ ॥ प्रमदनादभृतां परिवल्गतामित इतोऽपि खुरैः खनतां क्षितिम् । तृणमुचां वदनेष्वथ वाजिनां सपदि खाद्यमबध्यत किंकरैः ॥ ४८ ॥ अविरलोच्चदलोच्चयखादनैर्मयगणः क्षणतो धरणीरुहाम् । असृजौदिशिरोवेपनोत्सवानिव स गीतिषु दिक्षु खगारवैः ॥ ४९ ॥
जीवः क एष किमु नाम विलोकतेऽसा__वुत्कंधरः प्रकुपितः पटुदीर्घदन्तः । एवं विलोक्य रवणं वनमेदिनीषु __ दूरं पलायत भयादिभसूदनोऽपि ॥ ५० ॥ शीकरार्धतृणच्छद्मस्वेदरोमाञ्चकञ्चकाम् । हर्षी वृषचयोऽचुम्बन्नदीतीरभुवं युवा ॥ ११ ॥ यस्मै यद्यजनितमशनं तेन तेनातिखिन्ना
न्पश्चात्पश्चादभिगतवतो भोजयामासुराशु । आसंध्यं ये स्वयमविदितक्षुद्भराः सत्त्ववीरा
स्तेषां क्षीराकृतियश इव प्रोदगादिन्दुरोचिः ॥ १२ ॥ इति श्रीजिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये
वीराङ्के उद्योगपर्वणि निवासनिवेशो नाम चतुर्थः सर्गः ।
१. 'विपरिवर्तनयो' ख. २. 'मपि स्वप' क. ३. 'सुमहदन्तरतः' क-ख. ४. 'भक्ष' क. ५. 'वयवो' ग. ६. 'स्वस्मै' ख-ग.
Aho! Shrutgyanam