________________
१ उद्योगपर्व - ३ सर्गः ]
बालभारतम् ।
अवाप्य दैन्यं खलु सैन्यभारतश्चिरान्निरस्ता फणिकूर्मसूकरैः । महीयसां मूर्ध्नि मही महीभृतां समारुरोह च्छलतो रजस्ततेः ॥ १६ ॥ तटेषु खातेषु तुरङ्गरङ्गणैरुपर्युपेतेषु रजश्चयेषु च ।
स्फुटीभवन्मूलविवृद्धमौलयो गणा गिरीणां त्रिगुणोन्नता बभुः ॥ १७ ॥ बलाभिषङ्गादधिकाधिकोत्थितै रजोभिरुच्चैर्दिवि सान्द्रतां गतैः । रवेरवष्टब्धखुरास्तुरंगमाश्विरं महीचारसुखं सिषेविरे ॥ १८ ॥ प्रपूरितानां परितो बलोद्धतै रजोभिरास्कन्धतलं महीरुहाम् । समुन्नतानामपि पाणिलीलया फलान्यगृह्णादपि वामनो जनः ॥ १९ ॥ विधेः कृतं क्वापि न जायतेऽन्यथा तथा हि शून्यं गतयापि रेणुभिः । विभावरीवासररत्नगर्भया न किं भुवाभूयत रत्नगर्भया ॥ ६० ॥ इलावले पङ्किलतां प्रपेदुषि प्रभिन्नकुम्भीन्द्रमदाम्भसां भरैः । अधारयद्वष्टिनिवृत्तनीरदप्रभां नभोऽन्तः प्रथमोत्थितं रजः ॥ ६१ ॥ नभःसरित्केतनभासुरे शिरः सुवर्णकुम्भाथितभानुमण्डले ।
सुखं लसन्ती पृतनेह जङ्गमे नृपस्य धाम्नीव रजस्यराजत ॥ ६२ ॥ रथं नयन्वैर्त्मनि राजवाजिनं भुजिष्यभग्नस्थपुटं शनैः शनैः । जगाद यन्ता कुतुकस्टशा दृशा निरूपयन्तं नृपतिं पताकिनीम् ॥ ६२ ॥ अधीश पश्यात्र हयेऽनुपातिनी द्रुतं भिया वक्रितकन्धरा वधूः । व्यधाद्विलोलं नयनं तथा यथा स्थितो हियेवायमभूत्समीपगः ॥ ६४ ॥ अयं मयस्यानुयतः स्वनं घनं निशम्य कोपाद्ववले मृगद्विपः । निरीक्ष्य तद्वर्ति वधूकुचद्वयं प्रतीभकुम्भभ्रमतो भियात्रसत् ॥ ६१ ॥ तरोस्तलेऽसौ विदया निषेदिवान्नृपस्य वाचा प्रथमं समुत्थितः । तमप्यनालोच्य सखायमग्रतोऽत्रसन्निरीक्ष्यागतमुन्मदं गजम् ॥ ६६ ॥ न हत्यया हन्त कदापि गृह्यते करी परं पापशिखा निषादिनाम् । इति प्रलापेषु जनस्य कुम्भिना व्यमोचि नारीयमनेन सादिना ॥ ६७ ॥ पुरो मुखस्य भ्रमयशिखां तरोः प्रकोपयन्कोऽपि गजं कुतूहली । उदस्तहस्तं परिवञ्चय यात्यसौ चतुः पदाभ्यन्तरवर्त्मना मुहुः ॥ ६८ ॥ १. 'वर्त्म विनीतवाजिनम्' ख-ग. २. ' रथं पथि' ख. ३. 'सादिता' ग.
Aho! Shrutgyanam
२७५