________________
२७६
काव्यमाला।
विलङ्घय लची त्वरया रथोच्चयं गतोऽग्रतोऽस्मीत्ययमुद्धुरो मदात् । पुरः करित्रासवलन्मयद्वयः सहाससां राविणमीक्षितो बलैः ॥ ६९ ॥ अवेक्ष्य मार्ग शकटातिसङ्कटं रथी पथीह स्थपुटे प्रयात्ययम् । परिस्फुरच्चक्रविलोलवल्लभा मुहुः परिष्वङ्गसुखाभिलाषुकः ॥ ७० ॥ अयं दवीयःपदवीगतामिभीमिभभ्रमात्तूर्णमुपेत्य कोपनः । अमुं विनिश्चित्य ततः स्पृशत्यहो मुहुर्महेभस्ततहस्तलीलया ।। ७१ ॥ अवाप्तजन्मा जननीवधादसौ ततः कृतोचैर्बहुभारवाहकः । शुचा खराश्वौ निजपूर्वपक्षको निरीक्ष्य तुल्यध्वनि रौति वेसरः ॥७२॥ इति प्रसत्तिप्रसरार्द्रया चमूं शाभिषिञ्चन्निव धर्मनन्दनः । पदे पदे संमिलितैः कुतूहलादालोकि लोकैः शतधापि वीक्षितः ॥ ७३ ॥ द्विपेन्द्रदानोदकनिर्झरच्छटाभिषेकसान्द्रोभयपक्षधान्यया । अचल्यत ग्रामतटेषु सेनया निरन्तरक्षेत्रविसङ्कटे पथि ।। ७४ ॥ अमी महान्तः किरयो बृहत्तराः मृगास्तथैते प्रसभेन रक्षितुम् । अहो व शक्या इति भीतविस्मितैर्गजाश्वमालोक्य तव प्रगोपकैः ॥७॥ अपि श्रियां भूमिरभूषितोज्ज्वला विलोकयशालिषु गोपबालिकाः । स्वकामकेलीविशदाय केशवो न शैशवाय स्पृहयांबभूव किम् ।। ७६ ॥ इदं किमेतत्किमिति स्त्रियां तथा शिशौ मुहुः पृच्छति दन्तिवानिकम् । कृतोऽक्षमूल्याकुलितः किलाविदन्ददौ जरद्रामटिकोऽपि नोत्तरम् ७७ इतीक्ष्यमाणः क्षणकौतुकोल्लसद्विलोचनामनिवासिभिजनैः । चमूचयः काननभूषु भूषणी बभूव विस्तारमहीदिदृक्षया ॥ ७८ ॥ पुरः शिशूनां गललम्बिनां कपिस्त्रियः परिभ्रम्य तृणं यदत्यजन् । तदङ्गनानां कटकौचितीभृतामपुत्रिणीनां हृदि शल्यतामधात् ॥ ७९ ॥ . सुखं गतायाः शयनं सुलम्पटा विघट्य सिंह्याः स्तनतः स्तनंधयाः । गजेष्वधावंश्च मुहुर्भटाभकैर्मुदा व्यमुच्यन्त च मातुरन्तिके ॥ ८ ॥ फलं करेणाप्तुमना मुहुर्मयं निनाय चूतं रवणाधिरोहणः । मयस्तु निम्बाय मुहुर्गतः कुतः क्रियैक्यमन्योन्यमनोभिलाषयोः॥८१॥ १. 'शिवदाय' ख. २ अक्षमूली ग्रामे व्यवहारनिर्णायकः,
-
-
Aho! Shrutgyanam