________________
२७४
काव्यमाला |
परः समीरत्वरया समीरयन्हयान्नियन्ता जितवांश्च वाजिनः । ररक्ष चासन्नलता शिखाततेः पतिं चलत्प्राजनवेगलीलया ॥ ४३ ॥ चरिष्णुचकारगृहीतचीवरप्रपातिनः कृष्टतनोर्ध्वनिं प्रभोः । उदार चीत्कार भरैरकणर्यन्नबोधि कोऽप्यन्यजनेन सारथिः ॥ ४४ ॥ महारथौ कौचन को पहुंकृतिप्रणादरौद्रौ रथसंकटे पथि । युधे घृतासी चटुलौ चटूक्तिभिः प्रविश्य मध्यं प्रभुरप्यवारयत् ॥ ४९ ॥ पुरः प्रलुश्चतुरं तुरंगमत्वरापरिभ्रान्तपदाः पदातयः । रथा इवोच्चैर्भुजदण्डमण्डलीभवत्पताका यितखङ्गवलयः ॥ ४६ ॥ समुत्पतन्तोऽधिकमुच्चकैः समुल्लसत्कृपाणद्युतिहृद्यपाणयः । बभुर्भटाः स्वप्रभुकीर्तिविस्तृतिप्रवृत्तये कृत्तविपल्लवा इव ॥ ४७ ॥ विचित्रचारीषु सवर्वरं स्फुरत्स्फुटस्वनाशून्यभिदोऽसिलेखया । मुहुर्नदन्तो मदविभ्रमादजीगणंस्तृणामं त्रिजगत्पदातयः ॥ ४८ ॥ भयं दधानो हृदि विष्टपत्रयव्ययप्रगल्भोऽपि लुलायलाञ्छनः । रणे सहायी भवितुं भुजाभृतामसिच्छलो दक्षिणपाणिमग्रहीत् ॥ ४९ ॥ स्फरापदेशात्कलितैककुण्डलो विनीलवासाः कटिशस्त्रिकांशुभिः । अनन्ततां पत्तिचयो ययावसिच्छलेन कर्षन्यमुनां समन्ततः ॥ ५० ॥ उदस्य कोऽप्याशु समं मुहुर्मुहुः करेण वामेन च दक्षिणेन च । स्फरं च खङ्गं च दधद्विपर्ययान्महत्त्वमभ्यासकृतां कृती ललौ ॥५१॥ उपेत्य पश्चान्मृततातवृत्तिकः कृताद्भुतध्यानपरेण कौतुकात् । परेण बालः सहसापि तापितश्चलन्धृतासिर्न भटानतत्रपत् ॥ ५२ ॥ उदस्य कुन्तं दिवि कोऽपि लीलया सकौतुकैः सैन्यजनैर्विलोकितः । क्षितेः समुत्पत्य रयेण पाणिना तमूर्ध्वमेव प्रसरन्तमग्रहीत् ॥ १३ ॥ जनौघमाक्षिप्य पुरश्वरं भटः स्फुटं परिक्षिप्य रयेण कुन्तकम् । परेण निर्मुक्तमिवाग्रतो गतः करेऽग्रहीत्कश्चन वञ्चयन्मुखम् ॥ १४ ॥ इति स्फुरत्कृत्स्नचमूसमुत्थितै रजोभिराच्छादितभानुभानुभिः । कृतप्रयाणे जयभाजि राजनि व्यराजदेकातपवारणं जगत् ॥ १५ ॥ १. 'क्षमः ' ख- ग.
Aho ! Shrutgyanam