________________
२७२
काव्यमाला |
शमीव तत्त्वं परमं तमुद्वहन्युधिष्ठिरं धर्ममयं चमूचयः । अखण्डयन्पुस्तरुखण्डशाखिनां शिखाग्रमप्येष शनैः शनैययौ ॥ १७ ॥ उदित्वरैर्वप्रगिरिप्रतोलिकागुहाशतेभ्यो गुरुवाहिनीगणैः । अपूरि दूरादपि पूरविस्तृतैः स भूरिभिर्भूविभुसैन्यसागरः ॥ १८ ॥ गतेऽक्षिमार्गान्नृपतावियं वियोगिनीव शून्यत्वमवाप किंचन । तदात्तवप्रावतरद्विलोककप्रजामिषसिशिरोंशुका पुरी ॥ १९ ॥ समुहल निगमः कियानिति प्रतिक्षणं ध्यानपरश्च भूभरः । विलोचने वक्रितकन्धरं पुरीं प्रति प्रतेने च शनैश्चचाल च ॥ २० ॥ मिथोऽपि बिम्बद्विगुणां रदद्वयीं मणिप्रणद्धां दधतो महोन्नताम् । सुरासुरैरक्षुभिते बलाम्बुधौ विलेसुरैरावतवन्मतङ्गजाः ॥ २१ ॥ विषाणितां गर्जिभिरद्रिभेदिनां बले चले तत्रसुराशु दिग्गजाः । भुजङ्गराजैकककीलमौलिगस्ततो विलोलः क्षितिगोलकोऽभवत् ॥ २२ ॥ अवाप्य सेकं करिणां मदोदकैर्मरुत्तरङ्गानपि कर्णवीजनैः । सुयोधनक्रूरचरित्रमूर्छिताचिराद्धरा किंचिदचालयद्वपुः ॥ २३ ॥ मृतो मृतोऽसाविति भाषुके जने गृहीतमात्मानमपायुधः सुधीः । गजेन शुण्डाङ्गुलिपर्वचर्वणादमूमुचत्कोऽपि चमूचमत्कृतः ॥ २४ ॥ समेत्य पश्चान्निभृतं घृतक्रुधा गजेन विस्तीर्णकरेण संधृतान् । तदात्वकष्टच्छुरिकाग्रधारया विवर्ध्य बालान्द्रुतमच्छुटत्परः ॥ २५ ॥ महाबलः कोऽपि करं करेणुना धृतं करेणात्मकरादमोचयत् । स तेन गाढमहतो धृते करे वराक एवैककरः करोतु किम् ॥ २६ ॥ समेतमासन्नमिमं विभीः परः पुरो वलन्दक्षिणगात्रलीलया । पटेन शुण्डां परिमृज्य संभ्रमन्नविभ्रमत्पेचकसीम्नि जाङ्घिकः ॥ २७ ॥ न यावदुर्वी करिभारभङ्गुरा प्रयाति दर्वीकरमन्दिरोदरम् । खुरक्षतोद्भूतरजस्तया लघु वितेनिरे तावदमूं चमूहयाः ॥ २८ ॥ स्थली पयोधिर्जलधिर्वसुंधरा भविष्यतीति त्रिदिवेऽप्यभूत्कथा । स्फुरत्तुरङ्गप्रकरक्रमाहतिक्षणोच्छलद्भूलिभराव लोकतः ॥ २९ ॥
१. 'प्रस्तर' ख. २. 'नबिभ्रमन्नेककसीनि' ग.
Aho ! Shrutgyanam