________________
२७०
काव्यमाला ।
तैः सार्धमीश जयिभिर्विदधे विरोधं ___ मामेव यो मनसिकृत्य मृधैकधुर्यम् । आबालकालसुहृदं व्यसनोदयेऽद्य
तं मुञ्चतः स्फुटति मे हृदयं ह्रियैव ॥ ८२ ॥ दुर्योधनादपि युधिष्ठिरमभ्युपेत__ मद्यापि मां स्खलितसख्यमुदाहरन्तः ।
मां प्रीतिपूर्णमपि नीतिविदो विदन्तु ___मित्रं कलत्रमिव विश्वसनस्य बाह्यम् ॥ ८३ ॥ बन्धवोऽपि विरुद्धाः स्युर्लक्ष्मीलेशस्य लोभतः । जगतोऽपि जयत्येको जीवितालम्बनं सुहृत् ॥ ८४ ॥ मुञ्चे दुर्योधनं चैतद्विश्वे मित्रपराङ्मुखे । । हा कः कस्य मनःशल्यदुःखोद्धारं करिष्यति ॥ ८५ ॥ इति कृतगिरमङ्गाधीशमीशप्रशंसा
शुचिरुचिरचरित्रं वीरमापृच्छय विष्णुः । द्रुततरगति गत्वा कारयामास धर्मा
ङ्गजमसहनवर्गश्रीप्रहाणं प्रयाणम् ॥ ८६ ॥ इति श्रीजिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के उद्योगपर्वणि दुर्बोधदुर्योधनो नाम द्वितीयः सर्गः ।
तृतीयः सर्गः। धराधृतिद्वेषिहतिप्रतिष्ठितावतारसंभारसमुद्भवश्रमः । शमामृते विश्रमधीविवेश यः स पातु पाराशरविग्रहो हरिः ॥ १ ॥ कृती कुरुक्षेत्रगमाय विष्णुना स्वयं प्रयाणाय कृताभिषेचनः । परोपरोधादधिरूढवानथो रथं पृथाभूः पृथिवीपुरंदरः ॥ २ ॥ वृकोदराद्याः सहसा मनस्विनः सहोदरास्तं परिवत्रिरे नृपम् । द्युहस्तिनो हस्तमिवासुहृद्गणच्छिदानिदानं रणपारदा रदाः ॥ ३ ॥
Aho ! Shrutgyanam