________________
५ उद्योगपर्व -२ सर्गः ]
बालभारतम् ।
२६९
रोचते परकृताप्यहो सतां न स्तुतिः स्खमिह नौति कः स्वयम् । शेमुष स्वमयविष्टपत्रयस्वस्तवार्थमिति नः प्रयच्छसि ॥ ६९ ॥ किं तव स्तवगिरा प्रसीद नः श्रीतडिज्जलदभक्तिवत्सल । मुञ्चतु क्रुधमिमां भवान्भवाभोगदुःखसुखतारतुन्दिलः ॥ ७० ॥ कौरवेष्वपकरोषि बाणदोः खण्डखण्डन कुठार किं रुषा । वयसे युधि य एव भालदृग्दृष्ट भाललिपिना पिनाकिना ॥ ७१ ॥ ज्वालयन्हुतभुगेकमालयं पत्तनस्य परितोऽपि भीतिदः । एषु कुप्यसि भृशं वयं भयं मन्महे हृदि महेश मा कुपः ॥ ७२ ॥ एवमाशु गमितः शमं सुरैर्वज्रभृत्प्रभृतिभिः सुभक्तिभिः । द्रोणभीष्मविदुराचितो ययौ संसदः स दनुसूनुसूदनः ॥ ७३ ॥ पृथामथामन्त्र्य हरिः पुरस्य बहिर्गतः प्रागुपहूय कर्णम् । तदग्रतस्तज्जनि किंवदन्तीमुवाच दन्ती दनुजद्रुमाणाम् ॥ ७४ ॥ अथ स्वजन्मप्रथया पृथायाः कौमार्यसूनुर्निजगाद कष्टी । धियां मयैवेदमकारि दुःखमजानता तेषु सहोदरेषु ॥ ७९ ॥ धिग्मां मया सापि तदा वधूटी दृष्टातिहृष्टेन कदर्थ्यमाना । धिग्मां मया तान्परिहृत्य बन्धून्बन्धूकृतास्तत्परिपन्धिनोऽपि ॥ ७६ ॥ इत्यनुस्मरणकश्मलवर्णं कर्णमर्णवशयोऽनुशयार्तम् । आन्तरत्रिजगतीगतगङ्गावीचिचारुभिरुवाच वचोभिः ॥ ७७ ॥ कर्ण मा स्वमपवर्णय वृत्तं बन्धुवर्गमधुनापि भज खम् । राज्यभाजमिह धर्मजमुख्यास्त्वां नमन्तु तव कोऽपि न मन्तुः ॥ ७८ ॥ अग्रजं विभुमवाप्य भवन्तं दुर्जयेषु खलु तेषु विपक्षैः । वीर जीवदखिलात्मतनूजा प्रीतिमेतु जननी तव कुन्ती ॥ ७९ ॥ परस्परोन्मूलनमूलसंधा बन्धान्निवर्ते त्वयि फाल्गुने च । अविग्रहं वीर सहस्रदृष्टेः सहस्रभासा सह मैत्र्यमस्तु ॥ ८ ॥ इति वदति रिपौ दितेः सुतानां गिरमधितोल्लसदङ्गमङ्गराजः । कथय कथमिवाश्रये सगर्भानहमधुना प्रधनावतारकाले ॥ ८१ ॥
१. 'एष' ख. २. 'खागु' क.
Aho ! Shrutgyanam