________________
२६२
काव्यमाला।
किं चात्मायं न कस्यापि संबन्धी नास्य किं चन । वृथा ममायमस्याहिमित्यतत्त्वविदां मतिः ॥ १३५ ॥ राजन्नात्मानमात्मीयमेवं त्वं विद्धि बुद्धितः । पाण्डुपुत्रेण मत्पुत्रो जेतव्य इति मा मुहः ॥ १३६ ॥ इत्युक्त्वा विदुरेणान्तर्ध्यानादानीय दर्शितः । राज्ञे सनत्सुजातीयमुनिराध्यात्ममादिशत् ॥ १३७ ॥ तदुक्त्वाध्यात्मवाक्पूरदूरितान्तळथानलः । स तमां गमयामास वसुधावासवः सुधीः ॥ १३८ ॥ अथास्सिन्भूपतौ प्रातः सर्वैरुर्वीधवैर्वृते । यथोक्तं धार्मिकृष्णोक्तं सभायां संजयोऽभ्यधात् ॥ १३९ ॥ तत्र दुर्योधने राजन्यभिमान इवाङ्गिनि । पृथाभुवां च संदेशान्संदिदेश पृथक्पृथक् ॥ १४० ॥ वक्ति त्वां धर्मसूः प्रीतो गृहीते भूभरे त्वया। वयं तीर्थेषु विभ्रान्तोस्त्वमिव त्वं प्रियोऽसि नः ॥ १४१ ॥ जातः खेदो यदि भ्रातश्चिरकालेन कोऽपि ते । तन्मुञ्च तं भरं पञ्च तद्रहप्रगुणा वयम् ॥ १४२ ॥ ऊचे भीमो न चेद्भारं मोक्तुं शक्तोऽसि तं स्वयम् । तदादिश भृशं बाहुबलादुत्तारयामि ते ॥ १४३ ॥ ब्रूतेऽर्जुनः स्पृहाद्यापि भूभारं धर्तुमस्ति चेत् । तद्विश्रामधियाहं ते कर्णान्ते स्थातुमीश्वरः ॥ १४४ ॥ अतिपूरयितुं कर्णाविवै तद्वचनोच्चयैः । मूर्धानमाधुनोद्धन्याः सूनुर्धर्मसुतं स्तुवन् ॥ १४५ ॥ आचष्ट धृतराष्ट्रं च वचनैः कोपकल्मषैः । कटाक्षवीक्षिताशेषधराधीशो धुनीसुतः ॥ १४६ ॥ शक्ति द्यूतापमाने त्वल्लज्जयासज्जयन्न ते ।
न तु निर्जीड पीडा तेऽभूत्तेषु वनयायिषु ॥ १४७ ॥ १. 'चात्मनो' ग. २. 'ताः स्वमिव' क-ख. ३. 'वथ' ख-ग.
Aho! Shrutgyanam .