________________
५ उद्योगपर्व - १ सर्गः ]
बालभारतम् ।
ततो विचिन्त्य पार्थानां धर्म संग्रामधाम च । आर्तोऽम्बिकासुतस्तत्त्वविदुरं विदुरं जगौ ॥ १२३ ॥ यो नयी स जयीत्यत्र धर्मसूनुरुदाहृतिः । व्यावृत्त्युदाहृतिः किं तु भविष्यति सुतो मम ॥ १२४ ॥ किं करोमि क गच्छामि वत्सो मे दुर्नयाश्रयः ।
२६ १
इदं तु व्यसनं कुल्यमा कुल्यकृत मैन्मनः ॥ १२५ ॥ इति व्यथावशीभूतं भूपं बोधयितुं सुधीः । गिरास्यं विदुरो निन्ये शमामृत ( ? ) कुण्डताम् ॥ १२६ ॥ मा विषादविषान्मोहं व्रज धैर्य भज प्रभो ।
ते हि धीरा धरायां ये व्यसनेभ्यो न बिभ्यति ॥ १२७ ॥ सत्त्ववन्तो हि नात्मानं हापयन्ति विपद्धतम् । उनीवा इव धावन्ति पक्षच्छेदेऽपि वाजिनः ॥ १२८ ॥ ज्ञानीव तेजस्तपसोर्यस्तुल्यः संपदापदोः ।
तमर्दयतु कामानां मुग्धा धीः कर्मणामपि ॥ १२९ ॥ यः संपदापदोर्भेदं न वेद स्वान्ययोरिव ।
स सेव्यः स महातीर्थं स स्तुत्यः स तपः शुचिः ॥ १३० ॥ प्रीयतां व्यथयतां वा खैः संपदात्क्रमैः स किम् । पश्यत्यात्मानमिव यः संपदापन्मयं जगत् ॥ १३१ ॥ ते शूरा व्यसने दूरादायान्ति सति विद्विषि । हसन्तो हर्षसंलीनाः संमुखीना भवन्ति ये ॥ १३२ ॥ अत एव विद्वांसो ये हर्षाद्वैतवादिनः । व्यसनेन विजीयन्ते न दुःखाद्वैतवादिना ॥ १३३ ॥ स धीमान्स विविक्तात्मा प्राक्पुण्यायव्ययोद्यताम् । संपदं विपदं वेर्त्तिं विपदं संपदं च यः ॥ १३४ ॥
१. 'कुल्यं व्याकुल्य' ग. २. 'मात्मनः ' ग. ३. 'दृशाममृत' ग. ४. 'पत्कणैः' ख; 'मत्कणैः' ग. ५. 'अप्येत' ग. ६. 'चेति' ख.
Aho! Shrutgyanam