________________
काव्यमाला।
सुकृतामृतकल्लोलसंतानस्नानमालिनः । नेच्छन्ति दूषितां रक्तैः शुचयो विजयश्रियम् ॥ ११० ॥ सन्तो भजन्ति संतोषं सुलभं विश्ववैभवम् । वाञ्छन्ति भूलवैश्वर्य जडास्तु प्राणसंशयात् ॥ १११ ॥ न कुलीनसमं कुल्यैः श्रिये नाश्रीयते रणः । बुद्धिं युद्धाय कः कुर्याद्भाग्यायत्तासु भूमिषु ॥ ११२ ॥ इत्युदित्वात्तमौनेऽस्मिन्रसनावल्लिमञ्जरीम् । निनाय भारती भूपः संसत्कर्णावतंसताम् ॥ ११३ ॥ कदा कलहवार्तापि धार्तराष्ट्रः कृता मया। यदित्थमभ्यर्थयते मां मुहुः शान्तये पिता ॥ ११४ ॥ संगरस्य गिरामस्ति प्रस्तावोऽपि न संप्रति । यतो मे पूर्ववाग्नद्धः पिता दातैव मेदिनीम् ॥ ११५ ॥ न चेदाता भुवं वृद्धो वत्सवत्सलताजितः । तत्कार्येऽस्मिन्प्रमाणं नः पुरातनपुमानयम् ॥ ११६ ॥ ततो मतिलतापुष्पैः सभैकहृदयंगमम् । वितेने विमलैर्वणर्मालिकां वनमालिकः ॥ ११७ ॥ ददते यदि ते भूमिभागमागःशतानि तत् । मत्सखीचिकुराकर्षमुख्यान्यपि सहामहे ॥ ११८ ॥ इन्द्रप्रस्थं यवप्रस्थं माकन्दी वारणावतम् । किंचिच्च पञ्चमं पञ्चपुरीयं दीयतामिति ॥ ११९ ॥ इदमप्यददानेषु तेषु कृत्यविधौ पुनः ।। मन्त्रः प्रमाणं सामीरिसौनासीरिगदास्त्रयोः ॥ १२० ॥ इति कृष्णोक्तिमाकर्ण्य कौन्तेयानां च वाचिकम् । मनोऽपि रथवेगेन खञ्जयन्संजयो ययौ ॥ १२१ ॥ कथ्यं स्थितेषु भूपेषु स्वरूपं सदसि त्वया ।
इत्युक्त्वा बुद्धिदृक्सायमायातं विससर्न तम् ॥ १२२ ॥ १. पुराणपुरुषो विष्णुः.
Aho! Shrutgyanam