________________
२५८
काव्यमाला । इति हद्भिः सुहृद्भिश्च विचार्य सुकृतोचितम् । कृत्यं कृत्यबुधैर्विश्वानन्दि संदिश्यतां मयि ॥ ८५ ॥ इत्युक्तस्वेशसंदेशभङ्गिरिङ्गितवित्तमः । सर्वेषु स्वान्तबोधाय पुरोधाश्चक्षुरक्षिपत् ॥ ८६ ॥ जनिकृत्प्रकृतिः सर्वः स्यादिति स्पष्टतां नयन् । भेजे शुभ्रतरङ्गाभामथ गङ्गासुतो गिरम् ॥ ८७ ॥ दिष्टया बाहुबलोदस्तप्रत्यूहव्यूहवीचयः । विपन्नीरनिधेस्तीरमीयुस्ते वीरखेचराः ॥ ८८ ॥
ऐन्द्रिदोर्वशवीराणां दिष्टया तेषां शमार्थिता । दिष्टया प्रविष्टास्तत्कोपदहनं न महीभुजः ॥ ८९ ॥ इदं गदति गाङ्गेये भ्रूभङ्गाभोगभीमदृक् ।। तापनिस्तापनिर्बन्धविधुरां व्याहरद्गिरम् ॥ ९० ॥ रणत्रस्तहृदो दैन्यप्रार्थितोलिवानपि । भीष्म भीष्मानिवाख्यासि कस्मादस्मासु पाण्डवान् ॥ ९१ ॥ सन्त्येभ्यो वीरकोटीरा गुणकोटीभिरुत्तराः । तल्कि न पलितापीड ब्रीडेसे पाण्डवस्तवैः ॥ ९२ ॥ यद्वा सुतेष्वशक्तो यः स पितॄणां प्रियो भवेत् । निन्दा करोषि कुरुषु स्तुति पाण्डुसुतेषु यत् ॥ ९३ ॥ अथावदन्नदीसूनुः सितैः कुसुमितं वचः । पार्थस्तुतिषु राधेय बाधेयमिति किं तव ।। ९४ ॥ गणयन्ति तृणं प्राणान्ये प्रवीरा रणाङ्गणे । चण्डैरुड्डापयन्ते तान्पाण्डवाः काण्डवायुभिः ॥ ९५ ॥ निरीक्ष्य गोग्रहे घोषविग्रहे च बलं तव ।
नेदानीं वेद्मि दैत्येन यदि ते दधते भयम् ॥ ९६ ॥ १. 'भृङ्गीरङ्कितविक्रमः' क. २. 'बलोदअध्वस्तप्रत्यूहवीचयः' ख. ३. 'ऐन्द्रेर्दो' ग. ४. 'व्रीडमाप्नोषि तत्स्तवैः' ख.
Aho! Shrutgyanam