________________
१ उद्योगपर्व - १ सर्गः ]
बालभारतम् ।
तथेत्ययं प्रतिज्ञाय प्रति दुर्योधनं ययौ ।
तमाजग्मुश्च मित्राणि क्षत्राणि कति नाभितः ॥ ७३ ॥ भगदत्तो जगद्दत्ताभयः सुरविभोः सुहृत् । अरिदु सिन्धुरः सिन्धुपृथ्वीनाथ जयद्रथः ॥ ७४ ॥ अवन्तीशोऽनुबिन्दाग्रजन्मा विन्दोऽस्त्रकोविदः । द्वेषिक्ष्मापमनः शल्यं शल्यो मद्रमहीपतिः ॥ ७९ ॥ कृतवर्मा वृष्णिवरः काम्बोजेशः सुदक्षिणः । भूरिश्रवाः सौमदत्तिः शलादिभ्रातृभिर्युतः ॥ ७६ ॥ एते प्रत्येकमक्षौहिण्यधिपाः समुपाययुः । अक्षौहिण्यश्चतस्रोऽन्यैरिलानाथैः किलामिलन् || ७७ ॥ अक्षौहिणीभिरित्येकादशभिः शुशुभे नृपः । पातुं खदेशं जेतुं च दशाशा इव सोद्यमः ॥ ७८ ॥ धृतराष्ट्रे सभाभाजि राजराजि विराजिनि । स युक्तमुक्तवान्पार्थप्रहितोऽथ पुरोहितः ॥ ७९ ॥ वंश्यवर्गे यथायुक्तप्रणामानामयोक्तिभाक् । वक्ति पाण्डवराजन्यः सौजन्यविशदं वचः ॥ ८० ॥ धन्योऽस्मि बन्धुभिस्तुङ्गमङ्गीकृत्य धराभरम् । कृतोऽस्मि सुकृतोत्कण्ठी तीर्थयात्रोत्सवेन यः ॥ ८१ ॥ द्यूतोपदिष्टा गमयामासिरे वासरा मया । इदानीं दीयतां युक्तो भागः सागरवाससः ॥ ८२ ॥ जानामि नामित रिपुर्विपुलं विपुलातलम् । शतेन च चतुर्भिश्च बन्धुभिर्बन्धुरं भजे ॥ ८३ ॥ स्वयमेकेन केनापि भूमिर्भोक्तुं न शक्यते ।
सहते सत्सु कुल्येषु कोऽन्यं तद्भागभजिनम् ॥ ८४ ॥
१. 'शस्तु दक्षिणः 'क. २. 'स्वाजन्यशिवदं' क; 'स्वाजन्यं विशदं' ग. ३. 'भो
गिनम्' ग.
३३
२५७
Aho ! Shrutgyanam