________________
२१४
काव्यमाला |
3
क्षयोद्यत्कालरुद्राग्निवाडवायितदृग्युगः । ग्रसन्नोष्ठं रदैर्भालं वा वाचमुवाच सः ॥ ३६ ॥ कालकूटैर्व्यथाद्यापि तद्दत्तैर्बालकेलिषु । दहत्यद्यापि मद्देहं दहनो जतुगेहजः ॥ ३७ ॥ तैः कूटसारषाट्कारैर्निद्राद्यापि समेति न । क्लिश्यमानां परैः प्रेक्षे तथैवाद्यापि वल्लभाम् ॥ ३८ ॥ पिबामि रक्तमद्यापि न दुःशासनवक्षसः । तां नो सुयोधनस्योरुं गदयाद्यापि चूरये ॥ ३९ ॥ यावत्क्षत्रक्रियामन्दः संदधात्यसतां नृपः । क्षिपामि खण्डशः क्ष्मायां द्विषस्तावद्दासखः ॥ ४० ॥ इति हस्ताहतक्षोणिचमत्कृतफणीश्वरः । भ्रमिध्वनद्दाभीमो भीमो रोषाब्धिरुत्थितः ॥ ४१ ॥ द्विषदम्भोनिधिक्षोभसमर्थमथ सीरभृत् ।
अधारयदमुं दोर्भ्यां गोविन्द इव मन्दरम् ॥ ४२ ॥ असौ कुसुमयन्दन्तप्रभामधरपल्लवैः । बभाषे च समाकर्णपीयूषाप्रयणं वचः ॥ ४३ ॥ भीम स्थाम्ना च नाम्ना च जयत्येव जगद्भवान् । कुलीनगुरुगीः किंतु लङ्घिता लाघवाय ते ॥ ४४ ॥ यथा तथापि नो जेया बलिनश्छलिनश्च ते । भेदस्तु क्रियते कोsपि संधिच्छलबलैश्वरैः ॥ ४५ ॥ तुल्यः पितामहस्तुल्यो गुरुस्तुल्यो गुरोः सुतः । तेषां च भवतां चैते दधते यद्युदासताम् ॥ ४६ ॥ अर्जुनेषुमरुद्भूतकर्णादिषपङ्कयः ।
अम तदा त्वदायत्तगदावत्त्रैव कौरवाः ॥ ४७ ॥ प्रमाणय गुरोर्वाणीं रुचि च रचयात्मनः । तेsपि त्वमिव दर्पिष्ठा न संधौ दधते धियम् ॥ ४८ ॥
१. 'च समुवाच' क-ख. २. 'सारि' ख. ३. 'प्रेक्ष्ये' क ख.
Aho ! Shrutgyanam