________________
१ उद्योगपर्व - १ सर्गः ]
बालमरितम् ।
इति जानेऽघसंघाने न धीरपि विधीयते । तैर्भीमैकगदासाध्यैश्छलिभिर्वैरिभिः सह ॥ २४ ॥ एवं वाग्डष्टिजीमूते सृञ्जयेऽथ विरामिणि । बभार भारतीं विष्णुर्मराल इव कोमलाम् ॥ २९ ॥ नीतिसारं नृपः स्माह शौर्यसारं च सृञ्जयः । क स्थानं मदिरां वच्मि येदौदासीन्यदोषभीः ॥ २६ ॥ रण्डा निर्विक्रमा नीतिरनीतिर्विक्रमोऽप्यसन् । कीर्ति जनयते गौरीं मिथुनं नीतिविक्रमौ ॥ २७ ॥
धावन्क्रोधान्धकारेषु नीतिदीपिकया विना । स्खलित्वा क्ष्माभृति प्रौढे भज्यते विक्रमः क्वचित् ॥ २८ ॥ शौर्येण स्मेरिता नीतिः सूर्येणेव सरोजिनी । राजहंससमूहस्य वशीकरणकारणम् ॥ २९ ॥ तदस्ति हस्तगं शौर्यमिह नीतिः प्रयुज्यताम् । भजन्ते यदि संधानमन्धावनिपनन्दनाः || ३० ॥ safir हरौ भूपपादपीठोपसेविनी । शोणकोणका रोषपदं द्रुपदजावदत् ॥ ३१ ॥ नीतिः पततु वो मूर्ध्नि क्षयं व्रजतु वो मतिः । पातालं यातु वो मन्त्रः शास्त्रं चैतत्प्रलीयताम् ॥ ३२ ॥ तदा सदसि मां वीक्ष्य तैः कृष्टकचवाससम् । प्रलीनं चेद्बलं तत्किं स्फुटितं न ह्रियापि हृत् ॥ ३३ ॥ संधि निर्मातु निर्मानः सह तैरहितैर्नृपः ।
अहं तु हन्तुमद्य स्वमुद्यतास्मि हुताशने ॥ ३४ ॥
इति वाचालपाञ्चाली निःश्वासानिलवीचिभिः । arrataract भीमो गाढमुज्ज्वालतां गतः ॥ ३५ ॥
२१३
१. 'जातेऽथ' ग. २. 'यद्यौ' ख. ३. क्ष्माभृति राजनि पर्वते च ४. 'ततः ' ग. ५० 'मुद्दलतो' ग.
Aho ! Shrutgyanam