________________
२४६
काव्यमाला ।
युधिष्ठिरं वीक्ष्य दृशा कृशानुतेजाः कुमारस्तुरगं विमुच्य । नमश्चकार क्षितिनम्रमौलिस्तथा च भीमप्रमुखान्क्रमेण ॥ ३५ ॥ न्यञ्चद्वपुः किंचिदुदश्चिताङ्गभागेन साकं पुरपार्थिवेन । कटीतटन्यस्तकरश्चकार कृती परीरम्भभरं विधिज्ञः ॥ ३६ ॥ समानरूपप्रतिपत्तिमेव विधाय सङ्गं सममुत्तरेण । युधिष्ठिरादेशवशात्कुमारस्तुङ्गं तुरंगं पुनरारुरोह ॥ ३७ ॥ प्रत्यालयद्वारविमुक्तमुक्ताकदम्बकः स्वस्तिककैतवेन । सर्वाङ्गमानन्दमनोरमश्रीः प्रस्वेदबिन्दुप्रकरान्बभार ॥ ३८ ॥ परिस्फुरद्वाहसमूहपादप्रयातभिन्नावनिमण्डलोत्थैः । वातप्रणुन्नै रजसां वितानैर्विवर्णतामप्युररीचकार ॥ ३९ ॥ स देशदेशप्रसरत्प्रमत्तमातङ्गचक्रभ्रमसंभ्रमेण । वसुंधरायां परिकम्पितायां कम्पानुभावं बिभरांबभूव ॥ ४० ॥ तत्कालसज्जीकृतनीलरत्नद्वास्तोरणस्तम्भसमुद्भवेन । मरीचिवीचीप्रसरेण भूरिरोमाञ्चमङ्गे रचयांचकार ॥ ४१ ॥ उच्चैःशिरः संगतलोकघट्टप्रभ्रष्टहारच्युतमौक्तिकौधैः । स्फीतप्रतोलीनयनान्तरालादश्रुप्रपातं परितस्ततान ॥ ४२ ॥ आयाति सौभाग्यनिधौ कुमारे विस्तारयामास च बाहुपाशौ । द्विधाभवत्संमुखपौरलोकव्याजेन नारीव पुरी तदासौ ॥ ४३ ॥
(कुलकम्). मूर्त्या स मूर्तः किल कामदेवः कामं विभूषाभरभासमानः । स्मितप्रतोलीनयनाध्वनैव पुरीपुरन्ध्री हृदयं विवेश ।। ४४ ॥ आकार्यमाणा नवतूर्यनादैर्नार्यः स्वकार्यप्रसरं विमुच्य । कुमारमालोकयितुं विलोला जालान्तरालाभिमुखं प्रचेलुः ॥ ४५ ॥
औत्सुक्यतः काचन चित्रकाथै करे गृहीतां मृगनाभिमेव । स्निग्धाञ्जनभ्रान्तिवशाकिरन्ति नेत्रद्वये तत्र ददौ मृगत्वम् ॥ ४६ ॥ ताडङ्कमेकं कर एव काचित्तदा वहन्ती चपलं चचाल । त्रैलोक्यक्षेत्रमरचक्रवर्तिपताकिनीवाग्रविलासिचक्रा ॥ ४७ ॥ १. 'ताटङ्क क.
-
-
Aho! Shrutgyanam