________________
४विराटपर्व-४सर्गः) 'बालभारतम् ।
२४५ आकर्ण्य मत्वाथ तथेति विष्णुदत्ताङ्गभूषं विससर्ज दूतम् । सौधं मतीनामभिमन्युशिक्षाकृते कृती मन्त्रिणमादिदेश ॥ २२ ॥ राज्ञस्तदाज्ञामधिगम्य सम्यग्विशुद्धधीरुद्धवमन्त्रिराजः । उवाच वाचः सितकान्तिकान्तिर्भद्राः सुभद्रातनये नवेच्छुः ॥ २३ ॥ मा विश्वसीविश्वजनीनशक्ते स्त्रियः श्रियो वा भृशचञ्चलायाः । ददाति गाढं व्यसनं जनानां रक्ता विरक्तापि पदे पदे या ॥ २४ ॥ यातो महात्मन्यपि लम्पटत्वमामन्यते लम्पटसंगमेन । लोलः शशाङ्कोऽपि विभाति तात वातप्रणुन्नाम्बुदमध्यवर्ती ॥ २५ ॥ कृतिन्नमात्येषु पुरातनेषु चिरं स्थिरा राजति राजलक्ष्मीः । यतः शरावेषु नवेषु वारि न्यस्तं समस्तं प्रलयं प्रयाति ॥ २६ ॥ ध्वस्ता समस्ता रिपवो मयेति निरुद्यमो वीरवरेण्य मा भूः । मुक्तोदये भास्वति भूरिशोऽपि भिन्नं तमोऽभ्येति पुनः कुतोऽपि ॥२७॥ तात प्रतापप्रसराय धीराः कुर्वन्ति धैर्य न पुनर्धनाय । न केसरी मौक्तिकपतिहेतोराहन्ति दन्तिप्रकरं करात्रैः ॥ २८ ॥ दुरोदरारम्भकथां कथंचिदार्या न कार्यान्तरतोऽपि कुर्युः । दुरोदरस्य व्यसनेन पेतुर्विपत्पयोधौ पितरस्त्वदीयाः ॥ २९ ॥ प्रभुप्रवृत्तिप्रतिमं चरन्ति प्रजाश्चिरं चण्डतमं हिमं वा । सूर्योपला वह्निमुचः स्वकाले चन्द्रोपलाः पश्य सुधामुचः स्युः ॥३०॥ अत्यर्थभावेन निषेव्यमाणमप्यार्य कार्य व्यसनं वदन्ति । तन्वन्पितुर्वाचमवाप रामो वनं बलियंग्गमनं च दानात् ॥ ३१ ॥ इत्यादिभिर्मन्त्रिपतेर्वचोभिर्मत्वा विदग्धं भुवि भागिनेयम् । विधाय दिव्यास्त्रभरप्रवीणं हरिः पितुः सद्मनि तं न्ययुक्त ॥ ३२ ॥ रिङ्गत्तुरङ्गशतभूमिभागरजोभरच्छन्नदिनादिनाथैः । कैश्चित्प्रयाणैरगमत्कुमारो विराटभूपालपुरोपकण्ठम् ॥ ३३ ॥ नदीप्रवाहप्रतिमस्य तस्य कुमारसैन्यस्य समागतस्य । विराटभूपालबलाम्बुराशिर्वेलाकुलः संमुखमाचचाल ॥ ३४ ॥ १. 'तुरङ्गाक्षतभूमि' क; 'तुरङ्गक्षितिभूमि' ख.
Aho! Shrutgyanam