________________
*४४
काव्यमाला |
ययाग्रहः स्नेहविवृद्धिहेतोश्चिराद्विराटस्य चकास्ति चित्ते । सुताय दत्तामभिमन्यवे तत्सुतां मदीयाय सदृग्वराय ॥ ९ ॥ आलोक्य निश्चित्य च कृत्यमेतच्चिरं हृषीकेशपुरे न्ययुक्त | भूपः सुभद्रातनयस्य तूर्णमाकारणायाकृतिदर्पकस्य ॥ १० ॥ अथागतं द्वारि धनुर्विमुक्तबाणत्वराजित्वरनौसवेगम् । विज्ञापितो वेत्रिगिरा मुरारिरवीविशत्संसदि दूतमेनम् ॥ ११ ॥ कृतप्रणामस्तदयं जगाद चरः सभायां तिलकानि तन्वन् । द्विजन्मचञ्चत्करचन्दनेन मुरारितेजो मृगनाभिभाञ्जि ॥ १२ ॥ अयुङ्क्त मां युक्तमतेन राजा सहोदराणामिह धर्मसूनुः । प्रत्यक्षतां पूरितगोप्य कालस्तन्वन्विवस्वानिव तीव्रतेजाः ॥ १३ ॥ किरीटिने गोग्रहगाढ गर्वदुर्योधनक्ष्मापंजयोज्ज्वलाय ।
दातुं सुतां धर्मसुतांहियुग्मे लग्नो विराटः सह नन्दनेन ॥ १४ ॥ सुतेव शिष्येति धनंजयेन नैवादृता पार्थिवपुत्रिकेयम् । स्नुषा तु पुत्रीव सतां विभाति ततः सुतार्थ स्वयमर्थिता सां ॥ १९ ॥ ततस्तदाकारणकारणेन समागतोऽहं जगदेकनाथ ।
स्वामिन्सुभद्रातनयं नयज्ञं क्षणान्निजं प्रेषय भागिनेयम् ॥ १६ ॥ सखीसमक्षं मुकुरे मुखं या निरीक्षितुं चेतसि लज्जमाना । मुहुः कुमारी मणिकङ्कणेषु लोलाविलोकं क्षिपति स्म चक्षुः ॥ १७ ॥ उरःस्थले मन्मथपार्थिवस्य मत्वा निवासं कुचदूष्यचिह्नम् । विमुच्य यस्याः सरलप्रचारं कर्णान्तरे दृङ्मृगयुग्ममागात् ॥ १८ ॥ अन्तर्गता शैशवयौवनाभ्यां या पीड्यमानेव मुहुर्हढाभ्याम् । पर्याकुला वाञ्छति लोलदृष्टिः कस्यापि पाणिग्रहणं कुमारी ॥ १९ ॥ कुतूहलात्काञ्चनकन्दुके च करं करोति श्रुतिमण्डले च । मुहुर्विभूषाजुषि या विनोदगेहे च देहे च करोति दृष्टिम् ॥ २० ॥ इमां कुमारीं परिणीय राजन्नयं कुमारो भुवने विभातु । अभ्युन्नतः केतुरिवान्ववायप्रासादमौलौ विलसत्पताकः ॥ २१ ॥
१. 'युक्तमते मतेन' गं.
Aho! Shrutgyanam