________________
४विराटपर्व-४सर्गः]
बालभारतम् ।
२४७
क्षिप्रं श्रुतौ कुण्डलमेकमेव कस्याश्चिदास्यं दधदाबमासे । हर्षप्रकर्षाद्भुतमाससाद द्रष्टुं कुमारं स रविः किमिन्दुः ॥ ४८ ॥ चचाल हारस्य पदे निवेश्य समुत्सुका काचन काञ्चिदाम । सकिङ्किणीध्वानमिदं वहन्ती सा मूर्तकामद्विपवद्वभासे ॥ ४९॥ चक्षुर्गवाक्षं सुदृशां मनोभूः स्वसद्मनां कौतुकतोऽधिरूढः । तदेकतानप्रविलोक्यमानकिरीटिसूनुं प्रति मानदम्भात् ॥ १० ॥ आलोकयन्वंश्यममुं कुमारं भूरीणि रूपाणि विधुर्विधाय । स्मितेक्षणश्चन्द्रमुखीमुखानां मिषेण हर्षी न समाप तृप्तिम् ॥ ११ ॥ निपीयमानः स्मरविह्वलाभिरेवं सुकेशीभिरसौ कुमारः। अन्तः प्रविश्याशु मनोऽपहृत्य तासां क्रमादप्रकटो बभूव ॥ १२ ॥ निपीय नेत्राञ्जलिसंपुटेन क्षणेन सौन्दर्यरसं सुकेश्यः । चिरादतृप्ता इव नैव जग्मुः पुरोविभागाद्विगतेऽपि वीरे ॥ १३ ॥ विनिर्जितेनैव तनुप्रभाभिरयं स्वकीयप्रतिमाच्छलेन । स्मरेण संसेवितपादमूलः सौधान्तरं रत्नधरं विवेश ॥ १४ ॥ बहुश्रुतैः कुण्डलितं द्विजेन्द्रनिश्चित्य लग्नं शुभभावसूचि । पाणिग्रहारम्भमहोत्सवानां कृते नृपावुत्सुकतां प्रपन्नौ ॥ १५ ॥ वाजन्यजन्मप्रमदावदाताः स्वयं तदा तारतरत्वराभिः । मत्स्यावनीन्दोः पुरि विश्वभूपाः श्रीविश्वरूपप्रमुखाः समीयुः ॥ १६ ॥ भ्रान्तनुवो वन्दनमालिकाभिश्चलत्कराः केतनचक्रवालैः । महोत्सवेऽस्मिन्सदनश्रियोऽपि नृत्यं वितेनुधृतरत्नभूषाः ॥ १७ ॥ तनूजशुभ्रच्छदजाह्नवीभिः प्रतिक्रमाम्भोजमधुव्रतीभिः । तिथौ शुभायां द्रुतमुत्तरायां नितम्बिनीभिः प्रतिकर्म चक्रे ॥ १८ ॥ साभ्यङ्गभूषा सुभगा बभासे सिद्धार्थदूर्वाङ्कुरकर्बुराङ्गी । उपात्तबाणा ध्वजशोभिहेमनीलाश्मचेतोभवचैत्यचारु ॥ १९ ॥ रोफ्रेण निर्वाशिततैलमङ्गमाबिभ्रती कुङ्कुमपङ्कसङ्गम् । स्नानक्षणे तूर्यरवप्रमोदैः सा मूर्तरागप्रसरेव रेजे ॥ ६ ॥ १. 'हर्षप्रहर्षा' स्ख; 'हर्ष प्रक' ग. २. 'सूनुप्रतिमान' ग.
Aho! Shrutgyanam