________________
२४२
काव्यमाला।
जित्वा रिपूनथ समागतः पुरे मत्वा सुतं सपदि षण्ढसारथिम् । भीष्मादिभिः समरहेतवे गतं दुःखी विराटनृपतिर्न धर्मसूः ॥ १४३ ॥ यावह्वलानि समनीनहचरैस्तावत्कुमारविजयो निवेदितः । भूपः प्रवर्त्य नगरोत्सवं ततः कङ्कान्वितो व्यधित सारिखेलनम् ॥१४४॥ क्रीडन्नृपो व्यधित कङ्क पश्य मत्पुत्रो जिगाय युधि तं सुयोधनम् । कङ्को जगाद खलु जीयते सुखाद्येनैष सारथिरभूद्वहन्नडा ॥ १४५ ॥ षण्ढस्य सारथिपदं वदञ्जये हेतुं रुषा क्षितिभृताक्षताडनात् । कङ्कद्विजः स विदधे सभालहक्कीलो महेश इव दृश्यशोणितः ॥ १४६॥ मानिष्टमत्र विषये प्रवर्ततां भूसंङ्गिमद्रुधिरलीलयेत्ययम् । कीलालपाणिरवनीपतिर्बभावागन्तवे घुसृणवानिव श्रिये ॥ १४७ ॥ तूर्णागते द्रुपदनन्दिनीधृते पात्रे सुवर्णघटिते युधिष्ठिरः । चिक्षेप रागमिव मूर्तमात्मनः प्रेम्णा चिरात्क्षतननिर्भरं स तम् ॥१४॥ नेया वयं प्रकटतां दिनत्रयं नैवेति दत्तदृढशिक्षमुत्तरम् । पार्थो विधाय रथिनं तमात्मना धात्रीशसौधमनयद्रथं रयात् ॥१४९॥ संसद्भुवि क्षितिपतिं प्रति प्रतीहारो व्यजिज्ञपदुपेतमुत्तरम् । षण्वेन सार्धमतिवधिसमदस्तूर्ण नृपोऽपि तमवीविशत्तदा ॥ १५० ॥ यो मे करोति वपुषि क्षतं क्षितौ तं प्रेषयेत्स सकुटुम्बकं दिवि । षण्ढोऽयमत्र न विमुच्यतामतो दौवारिकेऽवददिदं युधिष्ठिरः ॥१५॥ इत्येक एव वचनेन वेत्रिणः प्रीतः सभान्तरमवापदुत्तरः । तं प्रेक्षत क्षतजनिर्भरं छलाच्छुण्डालमत्र च नरेन्द्रकुञ्जरम् ॥ १५२ ॥ वृत्तान्तमेतमवगत्य भूपभूस्तातं जगाद किमु कोप्यते द्विजः । संमान्यतामयमतः सुतोक्तिभिः ककं नृपः क्षमयति स्म मङ्क्षतम् ॥१५३॥ कोपावलोकनवशेन पाण्डवः कर्तु क्षमोऽपि भुवनानि भस्मसात् । . यं पट्टबन्धमतनोत्क्षतार्थकं तेनैव सोऽजनि धुरि क्षमावताम् ॥ १५४ ॥ मौलिक्षते द्विजवरस्य गोपिते षण्ढः सभाभुवि नृपेण मोचितः । विद्वेषिशाखिशतदावपावकः प्रापात्मनन्दनविलासमारुतः ॥ १५५॥ १. 'संमदं तू' ग.
Aho! Shrutgyanam