________________
४विराटपर्व-३सर्गः] बालभारतम् । निद्राधिदैवतनवावतारतो व्याघूर्णयंश्च वदनं विरोधिनः ।.... आलोकयंश्च निखिलाः पुनर्दिशो दृम्भिर्मुहूर्तधृतचेतना मुहुः॥१३१॥ मुक्तेऽर्जुनेन विशिखे सिविरे निद्रारस सपदि वैरिणो रणे । मांसाशनव्यसनसङ्गसंगतप्रेतप्रणाशकरघोरघोरिणः ॥ १३२ ॥ सुप्ताः परस्परशरीरसंभ्रमावष्टम्भवेदिसुखशालिनो द्विपाः । तेषां च कुम्भयुगलोपरिस्थिताः प्राप्तप्रियोरसिनविभ्रमा भटाः ॥१३३॥ निद्रारसः समजनिष्ट वाजिनां कश्चित्तदा स किल फाल्गुनास्त्रतः । अद्यापि येन गमनेऽपितेऽन्वहं नो यान्ति जागरणकेलिकौतुकम्॥१३४॥ आसन्नधोमुखनतास्तुरंगिणः स्कन्धेषु वाहनिकरस्य निद्रया। वक्षःस्थितं विजयरत्नमर्जुनव्याकृष्यमाणमिव रक्षितुं जवात् ॥ १३५ ॥ निद्रावशेन रथिनां करद्वयात्कर्णान्तनीतगुणमेव कार्मुकम् ।
भूमौ पपात विशिखैस्तु वेध्यगैर्विश्वे निजा सफलता म दर्श्यते ॥१३६॥ . ' तत्कालमेकसमयं पदातिभिः प्रौढैः पतद्भिरवनीधरोद्धुरैः। दुर्वारभारनतभूमिचक्रितस्वाङ्गो बभौ कमठवत्फणीश्वरः ॥ १३७॥ स्मृत्वोत्तरावचनमर्जुनस्ततो मत्स्येन्द्रसूनुमिदमब्रवीन्मुदा । दुर्योधनस्य कदलीदलप्रभे कर्णस्य काञ्चनरुची हरांशुके ॥ १३८ ॥ एतेषु न स्वपिति सिन्धुभूरसौ मुक्त्वा तदेतमितरक्षमाभृताम् । खैरं विचित्रवसनान्युपाहरेत्युक्ते नरेण स तथाकरोद्रुतम् ॥ १३९ ॥ आत्तांशुकः श्रितरथोऽथ मत्स्यभूः पार्थाज्ञयाशु तुरगानतत्वरत् । भीष्मे शरैस्तुदति पृष्ठतः परावृत्तो निहस्य तुरगाञ्जयी ययौ॥१४० ॥ मुक्तो रिपुः किमिति कौरवो वदन्सुप्तोत्थितः स्वयमबुद्धविप्लवः । ज्ञात्वांशुकान्यपहृतानि भीतिमान्भीष्मोक्तिभिः सह चमूभिरत्रसत् १४१ बाणैः किरीटशिखरं किरीटिना दुर्योधनस्य समहारि नश्यतः । तस्मिन्शमीतरुवरेऽस्त्रमण्डलं मुक्तं तथैव ववले पुरं प्रति ॥ १४२ ॥
इत्युत्तरगोग्रहः ।
.. १. 'अस्तैर्वि' क-ग.
Aho! Shrutgyanam