________________
२४०
काव्यमाला ।
धारोद्धराशरभरान्धनंजयो वर्षन्धनः प्रकटितोत्तरोन्नतिः । त्रासोन्मुखं समरपत्वलान्तरे तं धार्तराष्ट्रमकरोत्किलाकुलम् ॥ ११८ ॥ एकैकशोऽपि मिलितानपि भ्रमदिव्यास्त्रजालजटिलीकृताम्बरान् । एताञ्जिगाय युधि वासवाङ्गभूराविष्कृतप्रतिमहास्त्रपङ्क्तिभिः ॥ ११९ ॥ कौन्तेयकुन्तततिपातपातिता भान्ति स्म भूमिपतिवक्रपतयः । शौर्यश्रियः प्रधनपल्वलोदरे केलिक्रमाय कमलाकरा इव ॥ १२० ॥ भिन्नप्रभिन्नकरिकुम्भमण्डलीमुक्ताफलानि विगलन्ति भेजिरे । जम्भारिजन्मपरिरम्भसंभवात्स्वेदोदबिन्दुसमतां जयश्रियः ॥ १२१ ॥ दुःशासनप्रभृतयस्ततो व्यधुः सौवर्णपुङ्खविशिखोत्करैर्नरम् । नक्तं प्रदीप्तपरितोमहौषधीमालोज्ज्वलाञ्जनमहीध्रमञ्जलम् ॥ १२२ ॥ तानेक एव स शिलीमुखोच्चयैश्चक्रे विलीनमहसो महेन्द्रभूः । धिष्ण्यव्रजानिव दिवाकरो दिवारम्भे क्षणात्खरतरैः करोत्करैः॥१२३॥ छिन्नैनरेधुनिचयेन चामरैश्चित्रैर्ध्वजैश्च निपतद्भिराबभे । स्पष्टं पलग्रसनपुष्टिहृष्टिमद्रक्षोघटादृहसितैरिवाहवे ॥ १२४ ॥ ऐकस्तुरंगनिकरैस्तरङ्गिता बाणोत्करेण परिशोप्य वाहिनीः । अन्या द्विषां क्षतमुखाम्बुजार्चिताः प्रावर्तयधुधि जयोस्रवाहिनीः॥१२५ एवं पराजयविवृद्धमन्यवः शौर्याभिभूतशतमन्यवस्ततः । सर्वेऽपि सिन्धुतनयादयोऽर्जुनं संभूय तत्र रुरुधुर्धनुर्धराः ॥ १२६ ॥ तान्संहतान्पुनरवेक्ष्य रोषतः स्खं खं विभज्य बहुधेव वल्गतः । जिष्णोरपूज्यत पराक्रमश्चमत्कारोत्करं सुरवरैः सुमोत्करैः ॥ १२७ ॥ एकोऽप्यनेकवदयं भयंकरो राज्ञां शिरांसि परितः शरैः क्षिपन् । नूनं सहस्रभुजनेत्रतां जना दृश्यां गतोऽयमिति तर्कितोऽपरैः॥१२८॥ कुन्तीसुतोऽथ मरणैककाटिषु क्ष्मापेषु तेषु विलसद्दयारसः । अस्त्रं युधि प्रियमनङ्गधन्विनः संमोहनाभिधमधाद्धनुर्गुणे ॥ १२९॥ निद्रासमागमनहेतुदूतिका जृम्भा समेत्य वदनेषु विद्विषाम् ।। बाष्पेन सात्विकरसादिवोदयं संबिभ्रताशु नयनान्यपूरयत् ॥ १३० ॥ १. 'रक्तं' क. २. 'जल' क. ३. 'नरेश' क. ४. 'एका' ग.
Aho! Shrutgyanam