________________
२३२
काव्यमाला |
पूर्णेऽथ धर्मतनयस्य वत्सरे सुप्ते तदा कलकलाकुलाननः । गोपालजालपतिरेत्य संसदि श्वासोमिंजर्जरितगीर्जगौ नृपम् ॥ १६ ॥ यः कीचकेन करिणेव पल्वलश्चक्रे पुरा स्फुरदकीर्तिकर्दमः । देव त्रिगर्तनृपतिः स एव ते जहे पुरस्य सुरभीरभीलुकः ॥ १७ ॥ क्रोधोद्धुरः स धरणीधवो धनुर्ध्वानौचरुद्धमरुदध्वकन्दरः । प्रच्छन्नपाण्डुसुतसंयुतस्ततः संनद्धदुर्धरचमूचयोऽचलत् ॥ १८ ॥ तैः सूर्यशङ्खमदिराश्वनामभिः पुत्रैर्युतः स नृपतिर्द्विषां बलम् । प्रापेन्दुशुक्रबुधबद्धसंनिधिर्ध्वान्तं प्रगे प्रतिपदंशुमानिव ॥ १९ ॥ भोक्तुं रसेन चतुरङ्गतां गतं सैन्यं समानसमयं सुशर्मणः । तत्कृष्टकार्मुकचतुष्टयच्छलाज्जज्ञे यमस्ततचतुर्भिताननः ॥ २० ॥ वीरोत्करेऽवनिविलासशालिनि स्वर्गाङ्गनासमुदये वियज्जुषि । अन्तःपटाभमिषुमण्डपं व्यधुस्ते पाणिपीडनमहोत्सवे तयोः ॥ २१ ॥ स्पर्धानुबन्धिसुरसिन्धुमत्सरान्नेतुं सहस्रमुखतां निजं यशः । युद्धक्रियानिरवधीन्क्रुधावधीद्वीरान्सहस्रमथ मत्स्यपार्थिवः ॥ २२ ॥ तादृक्सहस्रमितवीरमर्दनप्रोद्भूतदुःसहमहःसहस्रकम् ।
मत्स्यावनीशमवलोक्य लज्जया झम्फां सहस्ररुचिराम्बुधौ व्यधात् २३ उद्दण्डकाण्डकृतवीरमण्डलावर्तस्त्रिगर्त नृपतिस्ततः क्रुधा ।
भ्रूभङ्गभीषणमुखः करालदृग्द्रा मत्स्यभूमि विभुमभ्यधावत ॥ २४ ॥ कुन्तं रयेण करमुक्तमाहवे दूरात्प्रविश्य हृदयेन विद्विषाम् । पृष्टेषु निःसृतमहो मुहुः करे वेगाद्धयस्य जगृहुस्तुरङ्गिणः ॥ २५ ॥ दूरे पुरः स्थितमपि द्विषं प्रति क्रुद्धा विमुच्य विशिखं महारथाः । पश्चाद्विमुक्तममुमश्ववेगतोऽपश्यन्मृतं वलितकन्धरा यदि ॥ २६ ॥ निर्भत्सितेव भटरक्तसिन्धुभिः संध्या जगाम विलयं स्वयं तदा । अप्यन्धकारनिकरान्निकारवान्क्षीणः क्षणेन रणरेणुडम्बरः ॥ २७ ॥ वीरासिपातधुतकुम्भिमण्डली कुम्भोत्थमौक्तिकगणानुकारिभिः । छिन्नोच्छलद्भटशिरोर्दिताम्बरस्वेदोदविन्दुभिरिवोडुभिर्बभौ ॥ २८ ॥
Aho! Shrutgyanam