________________
४ विराटपर्व - ३ सर्गः ]
भ्रश्यत्कृपाणततयोऽसिधेनुभिस्तद्भेदतः प्रबलमुष्टिलीलया । तस्यामशक्तिजुषि दन्तिवद्रदैस्तेनुस्ततोऽतिबलिनः कलिं भटाः ॥ २९ ॥ एवं बलेन बलिनः सुशर्मणस्त्रासं जवेन गमिते बले स्थितः । एको विराटजगतीपतिः प्रगे निस्तारकाततिरिवौषधीपतिः ॥ ३० ॥ स्वस्वाङ्गभूषणमणिप्रभाभरध्वस्तान्धकारविशदं मदात्तदा । उत्तालकालचरणं रणोत्सवं मत्स्यत्रिगर्तनृपती वितेनतुः ॥ ३१ ॥ वर्षत्यमर्षजुषि बाणधोरणीः क्रुद्धे त्रिगर्तनरभर्तरि क्षणम् । वृष्ट्ाकुलो गज इवाथ संकुचन्कष्टां दशामधित मत्स्यभूपतिः || ३२ ॥ वर्षे यदोकसि यदन्नभोजिनो यूयं स्थिताः स किमुपेक्ष्यते युधि । इत्यात्मवंशतिलकान्कुरूद्वहान्वक्तुं कृतोद्यम इवेन्दुरुद्ययैौ ॥ ३३ ॥ वीरेन्द्रमस्तकमणेः सुशर्मणो मूर्तव कीर्तिरुदियाय चन्द्रमाः । प्रेम्णेव पर्यरभतैनमङ्कनव्याजादकीर्तिरपि मत्स्यभूपतेः ॥ ३४ ॥ बाणोत्करैर्विरथितस्तिरस्कृतः खड्गादिशस्त्रसमरैरपि क्षणात् । मलोsपि मल्लकलया धुतः श्वसन्बद्धोऽथ मत्स्यनृपतिः सुशर्मणा ॥ ३९ ॥ क्षिप्ता रथे तमथ याति वैरिणि व्याचष्ट मारुतसुतं तपःसुतः । अस्मासु सत्सु यदयं द्विषा जितस्तदयौरिवेन्दुमहसा हसत्य हो ॥ २६ ॥ एवं निगद्य शरपद्यया दिवं वीरान्सहस्रमनयद्युधिष्ठिरः । भीमः शतानि युधि सप्त तत्क्षणं माद्रीसुतौ दशशतीं सुशर्मणः ॥ ३७ ॥ क्रुद्धस्य योद्धुमभिधावतस्ततो निर्मथ्य रथ्यरथसारथीन्पदा । मौलिं त्रिगर्तनृपतेरलोडयद्भीमो महेभ इव मूर्च्छितात्मनः ॥ ३८ ॥ मत्स्याधिनाथमभिमोच्य मारुतिः कारुण्यपुण्यसुकृतात्मजोक्तिभिः । वीरोऽमुचत्तमपि वैरिणं हसन्दासस्तवाहमिति दीनवादिनम् ॥ ३९ ॥ गृह्णीत राज्यमपि मे भवद्बलात्कीर्तौ च संपदि च संचराम्यहम् । अस्माकमेतदिति मत्स्यभूपतेः कङ्कादिभिः सह मुदोक्तयोऽभवन् ॥ ४० ॥ एवं विमोच्य सुरभीर्मिलच मूहर्षस्मितोच्चमिषमूर्तकीर्तिभाक् । दूतैर्निदिश्य नगरे जयोत्सवं तत्रैव रात्रिमवसद्विराटराट् ॥ ४१ ॥ इति दक्षिण गोग्रहणसुशर्मपराजयः ।
Aho ! Shrutgyanam
३०
बालभारतम् ।
२३३