________________
४विराटपर्व-३सर्गः] बालभारतम् ।
२३१ भीष्मोऽभ्यधत्त सुलभः शुभैकभूर्भूखण्डभूषणमणियुधिष्ठिरः । एभिश्चररैमितिभिः स वीक्षितः सर्वत्र पर्वतधुनीवनादिषु ॥ ३ ॥ यत्रातिशुद्धविधिविप्रमण्डली घुष्टत्रयीप्रमुदितस्त्रयी तनुः । काले जलं च तुहिनं च शक्तिमान्धमै च मुञ्चति नृणामदुःखदम् ॥४॥ दुग्धैः सहर्षसुरभीस्तनच्युतैरामूलमद्भुतरसासु भूमिषु । वापीषु यत्र जलमुद्भवत्यहो पातालनिर्यदमृतौघसंनिभम् ॥ ५॥ सत्कर्मकान्तवपुषाद्भुताद्भुतश्रीलक्षणेन सुतवत्सलात्मना । धर्मेण सत्यशुचिनांहिणान्वितो देशोऽस्ति तत्र खलु धर्मनन्दनः ॥६॥ ऊचे सुशर्मनृपतिस्त्रिगर्तभूनाथस्तदा कुरुपति कृताञ्जलिः । ख्यातं चरैर्मम समस्तभूमिभाग्देशेषु मत्स्यविषयोऽथ वर्ण्यते ॥ ७ ॥ तनिश्चितं चरति गुप्तचर्यया तत्रैव धर्मतनुजः सहानुजः । दृश्यश्च कैश्चन कदाप्युपक्रमैः स्यान्नैष वो हरिरयोगिनामिव ॥ ८ ॥ तन्मत्स्यराजनगराद्धरामहे वृन्दं गवां तदिह चेविषःस्थिताः । तद्गोपराभवरुषा गमिष्यति प्रत्यक्षतामसमयेऽपि फाल्गुनः ॥ ९॥ तत्रापि ते यदि भवन्ति न ध्रुवं वीरप्रकाण्ड तदपाण्डवं जगत् । तत्तादृगद्भुतविभूतिभूषणं मत्स्यादिभूननु विगृह्य गृह्यते ॥ १० ॥ यो नाम धामचयधाम कीचकस्तस्याजनि क्षितिपतेश्चमूपतिः । दैवाजगाम जगतां स दुर्जयो गन्धर्वकोपहुतभुक्पतङ्गताम् ॥ ११ ॥ तन्मत्स्यभूमिविभुरस्तकीचकोऽस्माकं स शल्यरहितेव शर्करा । आत्मप्रतापपरितापितात्मना तं वीर कीर्तिपयसा समं पिब ॥ १२ ॥ गोत्रद्विषं सबलबन्धुमेकतो दूरेण गोहरणतो हरामि तम् । तत्पत्तनं विभवमत्तमन्यतः स्वामिन्गृहाण विहितोद्यमः स्वयम् ।। १३ ॥ आदाय संविदमिमां सुशर्मणः प्रोत्साहितस्तपननन्दनादिभिः । राजा रजःकलुषकीर्तिसिन्धुना सैन्येन गौहृतिमतिस्ततोऽचलत् ॥१४॥ दिग्भ्यो यशः स्वमिव देहतः स्वतः पुण्यप्रतानमिव पावनं ततः । भर्ता त्रिगर्तविषयस्य याम्यदिङ्मुक्ताविराटनगराजहार गाः ॥ १५ ॥ १. 'धर्म' ख-ग. २ 'भूति' ख.
Aho! Shrutgyanam