________________
२३०
काव्यमाला।
उपरि स्फुरितस्य दुःखिनः स्वजनस्य स्वयमश्रुवारिभिः। तमपनपयद्भिरेव तैः क्षतजं क्षालितमत्र मण्डपे ॥ ५५ ॥ दधिरेऽधिकपञ्च कीचकाः शतमस्याग्निहुतौ ततो मतिम् । पुरतोऽङ्गुलिगुप्तनासिकां ददृशुस्तम्भयुजं च मालिनीम् ॥ १६ ॥ अभिघात्य निजैः प्रियैरभु मुदिता द्रष्टुमिहेयमाययौ । इति रोषरसेन कीचका दहने दग्धुमिमां समाकृषन् ॥ ५७ ॥ समनापि ततोऽप्रतश्चितां रुदितोद्गर्जनशोकसागरैः। निगदन्त्यपि गुप्तनामभिः स्वपतीन्सा रुदतीव कीचकैः ॥ १८ ॥ द्रुतलचितवप्रमण्डलः करशस्त्रीकृतमार्गपादपः। पदधूतरजोमये तमस्यथ भीमस्तदिलातलं ययौ ॥ १९ ॥ तमवेक्ष्य कृतान्तभीषणं गुरुगन्धर्वभियाथ कीचकाः। मुमुचुः सह जीविताशया द्रुतमेव द्रुपदस्य नन्दिनी ॥ ६० ॥ प्रणिहत्य हठेन कीचकान्सदशव्याममितेन शाखिना ।
तनयः पवनस्य वल्लभामथ संभाष्य यथागतं गतः ॥ ६१ ॥ विज्ञाय गन्धर्वहतान्नपस्तान्नोवाच किंचिच्च ततः स्वयं ताम् । सुदेष्णया भूपगिरा तु गेहान्निास्यमानेयमिदं जगाद ॥६२ ॥ क्ष्मानाथः क्षमतां त्रयोदशदिनी देवि प्रवीरास्तदा
भर्तारः स्वपदान्यवाप्य मुदिता नेष्यन्ति मामुत्सुकाः । तैर्युक्तश्च जवादवाप्स्यति जयं राजा विराटोऽप्ययं
तद्धीरैव भवेति तद्वचसि सा तूष्णीं सुदेष्णा स्थिता ॥६३ ॥ इति श्रीजिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के विराटपर्वणि कीचकवधो नाम द्वितीयः सर्गः ।
तृतीयः सर्गः। सुस्वादुशीतविशदः सुधारसो यद्वक्रपद्मगतिसारसौरभः । कर्णप्रियोऽप्यजनि भारतीभवन्कृष्णं तमानमत योगिनं जनाः ॥ १ ॥ दृष्टा न ते वचन पाण्डवा इति ख्याते चरैः कुरुनरेश्वरस्तदा । लप्स्ये क तानिति स चिन्तयाकुलः पप्रच्छ संसदि नदीसुतादिकान् ॥२॥
Aho! Shrutgyanam