________________
४विराटपर्व-२सर्गः) बालभारतम् ।
२२९ पदपातविकम्पितक्षितिः करघातध्वनदम्बरस्ततः । चकितः क्षणदाचरः परः समरस्तत्र तयोरजायत ॥ ४२ ॥ अथ भीमभुजामहार्गलप्रबलापातचयेन कीचकः । रुधिरं वमति स हृद्तं क्रतुपुत्रीनिबिडानुरागवत् ॥ १३ ॥ अखिलैरपि कीचकाङ्गकैः समरे भीमकरेरितैर्दुतम् । हृदि यातमहो बहिः प्रियामनवाप्तां समवाप्नुमुत्सुकैः ॥ ४४ ॥ सुरभीरुविलासविस्मृतद्रुपदापत्यरसेऽथ कीचके । दयितामभिभाष्य मारुतिर्मुदितोऽशेत महानसं गतः ॥ ४५ ॥ तदनु प्रहतं प्रहर्षितक्रतुजादिष्टमवेक्ष्य कीचकम् । अजनिष्ट जनोऽखिलः खलूदितवित्रासविषादविस्मयः॥ ४६ ।। अथ तत्र समं सुदेष्णया सुदृशस्तस्य सहोदराश्च ते । कृतहाकृतिदुःसहस्वनाः सहसा नृत्यनिकेतने ययुः ॥ ४७ ॥ प्रतिशब्दमिषेण देहिनां निबिडाक्रन्दभृतां पदे पदे । अपि कुट्टिमकेलिपर्वतत्रिदशावासभरैररुद्यत ॥ ४८ ॥ विजयिन्बलिनः सुशर्मणः स्मरवीरप्रतिवीरविग्रहम् । अनिमेषकराललोचनाः सुरनार्यः खदिताः किमद्य ते ॥ ४९ ॥ हरिणा स्वयमर्थितो यदि प्रिय जेतुं दिवि दानवान्भवान् । अवचःपरिभाषणो ययावपरीरम्भमरोऽपि नः कथम् ॥ ५० ॥ विलसन्तमनङ्गमङ्गिनं सुदृशस्त्वामिह मेनिरे भुवि । अधुना तपसोजितं प्रियं धुवधूस्तादृशमेव मन्यताम् ॥ ११ ॥ कृतमेतदहो युवासिनां मनसा सिद्धिमुपैति वाञ्छितम् । सुरभीरुभिरन्यथा कथं त्वमकस्मात्परिरम्यसे प्रिय ॥ १२ ॥ अनिमेषविलोचनासु चेत्तव रागः सुरकामिनीषु च । द्रुतमेहि महाशय स्वयं न निमेषो नयनेषु नः शुचा ॥ १३ ॥ इति तस्य नितम्बिनीजनप्रबलाक्रन्दितगाढदुःखतः । स्फुटति स्म किल द्विधा नभः ककुभो भङ्गमिवाययुस्तदा ॥ ५४ ॥
(कुलकम्)
Aho! Shrutgyanam