________________
२२८
काव्यमाला। स्फुरितैव कृतार्थता मिथो मनसोर्मेलनखेलनेन नौ । स भविष्यति कीदृशः क्षणः खलु सा यत्र शरीरयोरपि ॥ २९ ॥ इति स प्रलपन्धनं तया प्रहितो लोचनलोलनश्रिया । दृढतद्गुणबद्धमानसः शनकैर्धाम जगाम कीचकः ॥ ३० ॥ प्रहरे प्रथमेऽपि मूढधीळयमहः स मुहुः स पृच्छति । वचनैर्गृहकेलिदीर्घिकाश्रयकोकद्वयशोककारिभिः ॥ ३१॥ निशि तस्य मृति विचिन्तयन्कृपया नूनमहो दिवाकरः । अकरोद्दिवसं गुरुं हृदा विकृपं तं स तु मन्यते स्म हा ॥ ३२ ॥ क्षणदावसरेण मृत्युना खलु तस्य प्रसभं नमोन्तरात् । हूदिनीहृदयाधिपान्तरे पतिरहां परिपातितस्ततः ॥ ३३ ॥ न विधेयमतः परं मयेत्यतुलं भूषणमेव तन्वतः । स हतस्य मुदा म वर्धते रजनी चन्द्रमरीचिनिर्मला ॥ ३४ ॥ दयितावचने रणक्रियागंतभीमस्थिति भीमकोटरम् । निशि यामयुगक्षणे ययावथ संकेतनिकेतनं प्रति ॥ ३५ ॥ पथि दुःशकुना न तेन ते गणिता नूनमसंख्यतां गताः। श्रुतमाप्तभुजंगसंपदा मदनान्धेन वचः सतां न च ॥ ३६ ॥ परिवारजनं विसर्जयन्द्रुतमुत्सुक्यपरिस्खलत्पदः । प्रविवेश स रङ्गमण्डपं व मृगाक्षि त्वमसीति भावुकः ॥ ३७ ॥ अयमन्ध इवाग्रपाणिना तमभिस्पृश्य च कान्तकं जगौ । न मया कमलाक्षि मण्डनं विदधे तादृशमुत्सुकात्मना ॥ ३८ ॥ मदवाप्तिमनो लयात्प्रिये परुषं स्पर्शगुणं गतासि किम् । रणदारुणवैरिदारणक्षणकष्टैः कठिनं हि मद्वपुः ॥ ३९ ॥ दयिताभिभवेन सौरभैर्दयिताभोगकृते तैरपि । प्रधनप्रथया च पावनेस्त्रिगुणं कोपशिखी तदाज्वलत् ॥ ४० ॥ ददृशे तव रूपमद्भुतं विभुताबोधि मृधं प्रकाशय ।
इति मन्दमथालपन्मरुत्तनुभूय॑स्य तदंसयोर्भुजम् ॥ ४१ ॥ १. 'गम' ग.
Aho! Shrutgyanam