________________
४ विराटपर्व -२ सर्गः ]
बालभारतम् ।
इति वल्लभया स भाषितः स्मृतबन्धुव्रजदुःखकष्टितः । निजगाद तदा विनिःश्वसन्भुजयोरक्षियुगं मुहुः क्षिपन् ॥ १६ ॥ हृदयेश्वरि धर्मजन्मनः शममन्त्रेण दृढं नियन्त्रिताः । उपलत्रिदशा इवास्त्रिणो अभिभूतौ किमु कुर्महे वयम् ॥ १७ ॥ सह तेन विलाससंविदं कुरु मिथ्या निशि नृत्यमण्डपे । कमलाक्षि यथा क्षिपामि तं यमव परिपिण्डितं बलात् ॥ १८ ॥ इति भीमवचः सुधाचयच्युतदुःखौघविषा मखाङ्गभूः । द्रुतमाट विराटवल्लभाभवनं गुप्तमतागतिर्मुदा ॥ १९ ॥ अपरेद्युरुपागतं गृहं रहसि स्नेहपरेव कीचकम् । वचनैर्मधु वादसादरैर्निजगाद द्रुपदस्य नन्दिनि ॥ २० ॥ सजने सुभग त्वया कथं पृथिवीमन्मथ भाषिता तथा । विजने निशि नृत्यमण्डपे समुपेतव्यमहो मदिच्छया ॥ २१ ॥ इति तद्वचनैर्मुदं वहन्निदमूचे नरपालशालकः । स्वपदागतसुस्थजीवितस्फुटकण्ठस्खलदक्षरोदयम् ॥ २२ ॥ सुकृतैः समवधिं मामकैर्विनिपेते द्रुतमद्य पातकैः ।
तृणित त्रिजगत्प्रभुत्वया स्मितया मां तु यदीक्ष्यसे दृशा ॥ २३ ॥ मदिराक्षि मदङ्गसंगमभ्रमविभ्राजितशुभ्र कान्तिनोः । तव लोचनयोः पयोरुहां ततिमुत्तारणकं करोमि किम् ॥ २४ ॥ नयनप्रतिमा सरोरुहं वदनस्य प्रतिहस्तकः शशी । चलचारुचकोरलोचने वदनं ते वद वर्णयामि किम् ॥ २९ ॥ अयमद्य सुधासहोदरः सुमुखि त्वन्मुखचन्द्रमा वदन् । अभवद्विषसोदरोऽपि यः किमपि ह्यस्तनवासरे हहा ॥ २६ ॥ सफलं मम जन्म जीवितं विभुतारूपमहोमदोऽप्यभूत् । अमृतप्लुतिवन्मयि त्वया वचनं लोचनमप्यरोचि यत् ॥ २७ ॥ हृदयं विकास नेशिवान्परितापः प्रससार संमदः । परिरम्भगिरापि ते ततः परिरम्भे किमहो भविष्यति ॥ २८ ॥ १. 'मदो मदो' ग.
Aho ! Shrutgyanam
२२७