________________
२२६
काव्यमाला |
विकटाक्षिकटाक्षितानलिः करुणं क्रोधगिरात्र सा जगौ । नयमद्य विलोकयामि ते प्रहतां पश्यसि मत्स्यराज माम् || ३ || युवयोः कलहो रहोऽभवद्वद किंकारण एष मालिनि । इति जल्पति मत्स्यभूपतौ पुनरप्यादित पार्षती गिरम् ॥ ४ ॥ सुररूपिषु वल्लभेषु मे जगतामप्रकटेषु पञ्चसु ।
न महान्यदि जायते शमी बलवान्कः कुरुते तदीदृशम् ॥ ५ ॥ युधि भीम जयन्तमुत्कटं दयित त्वां कथयन्ति बान्धवाः । अवगण्य गुरोर्गिरं रयादहितं संहर मद्विडम्बनम् || ६ ॥ इति तामतिकोपसंभ्रमस्फुटगुप्ताक्षरभाषिणीं क्षणात् । निजगाद युधिष्ठिरो गिरा विकसत्कृत्रिमरोषरूक्षया ॥ ७ ॥ यदि ते विदितः प्रभावभाग्युधि भीमः पतिरस्ति कश्चन । परिपूरयिता स ते स्पृहां व्रज विनीभव मा दुरोदरे ॥ ८ ॥ इति धार्मिगिरा चिरादगाद्दधती मन्युभरं कुरङ्गदृक् । अभि भूपतिवल्लभामथाकथयत्कीचकदुष्टचेष्टितम् ॥ ९ ॥ परपूरुषपाणिदूषिते समभिक्षाल्पजलेन वाससी । जनितनपना च सागमन्निशि किर्मीरहरं महानसे ॥ १० ॥ स महानसवेदिकातले न च निद्रापरिपूरितेक्षणः । हृदये लुठनं दधानया परिरब्धो हृदयेश्वरस्तया ॥ ११ ॥ तदनिद्रविलोचनः प्रियामवलोक्य स्वयमागतां चिरात् । भुजयुग्मनिपीडनच्युतान्तरदुःखव्यसनां चकार सः ॥ १२ ॥ अथ दुःखजबाष्पगद्गदीकृतकण्ठस्फुरदस्फुटाक्षरम् । द्रुपदक्षितिपालनन्दिनी प्रतिवक्ति स्म जटासुरद्विषम् ॥ १३ ॥ यदुपेक्षितवान्पुरा भवानपि दुःशासनमुग्रशासनः । इति पश्यत गन्धकारिकापदसंकीर्णकिणौ करौ मम ॥ १४ ॥ अधुनापि चकर्ष कीचकः कचपाशं निजघान च क्रमैः । द्रुतमप्रति कुर्वतोऽग्रतः किमुरोऽपि स्फुटितं न ते पते ॥ १५ ॥
Aho ! Shrutgyanam