________________
४विराटपर्व-२सर्गः]
बालभारतम् ।
२२५
रोमाञ्चद्विगुणतरौ तरसा बाहू तदा तदीयौ तौ। अदलयतां केयूरे किल दयिताश्लेषविघ्नभयात् ॥ १०१॥ तामवदन्मदनातः स सती क्षितिवलयमिलितनयनयुगाम् । सुमुखि समेहि समेहि त्यज लज्जां रचय परिरम्भम् ॥ १०२ ॥ अयमहमियं च संपत्परिजनजनतेयमेतदपि सदनम् । उररीकुरु सकलमदकलमदशीली भवामि यथा ॥ १०३ ॥ इति निगदन्तमनन्तरमवलोक्य तमुत्सुकं प्रसङ्गाय । मणिभूषणकपिशतमं शीललतादवमसौ मेने ॥ १०४ ॥ दुरितद्विरदोन्मूलितमिव कीचकमंशुकातिकर्षण । तं भुवि परिपात्य ययौ राजनिकेताजिरं कृष्णा ॥ १०५॥ अभिसृत्य कामकोपद्विगुणिततापः कचैरथाकृष्य । द्रुपदात्मजां पदासौ श्रियमिव मूल् जघान खाम् ।। १०६ ॥ द्रुपदसुतादेहादथ रक्षारक्षस्तदाशु निर्गत्य । दुरितमिव तस्य मूर्त गतचेष्टमपातयद्भुवि तम् ॥ १०७ ॥
इति नृपतिसभायां भीमसेनोऽथ तिष्ठ. __ परिभवमवलोक्य स्वप्रियायाः प्रवीरः । शमितसमयरोधो बोधयन्क्रोधवनि
लघु सुकृतसुतेनारोधि संज्ञाज्ञयासौ ॥ १०८ ॥ इति श्रीीजनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचिते श्रीबालभारतनानि महाकाव्ये
वीराङ्के विराटपर्वणि पाण्डवगुप्तिर्नाम प्रथमः सर्गः ।
द्वितीयः सर्गः। स पराशरनन्दनो मुदे रिपुनारीनयनाञ्जना शनैः । असिभिव्रततीव्रताजितैरिव यः कान्तिमिषान्निषेव्यते ॥ १॥ अथ पाण्डवजीवितेश्वरी द्रुतमुत्थाय कृतातुरस्वरा ।
रजसा वृतविग्रहा ययौ जगतीपालसभां स वल्लभाम् ॥ २ ॥ १. 'तरं' ख-ग.
Aho! Shrutgyanam