________________
२२४
काव्यमाला |
अन्तर्गतया तदुरः पीडितमेव त्वयैव पूर्वमपि । अधुनापि पौनरुक्तत्याद्बहिर्गता हि पीडय न दोषः ॥ ८९ ॥ इति रचितवाचि तस्यामश्यामलचरितया तयोक्तमिदम् । दूति बिभेमि स भेद्यो गन्धर्वैः पञ्चभिः पतिभिः ॥ ९० ॥ इत्यफलीकृतमस्या वाचां पटलं तदेकवचनेन । मलिनतमममलरुचिना गृहमणिना तिमिरजालमिव ॥ ९९ ॥ इति गतया दूतिकया तस्या वचने यथातथे कथिते । नलिनतलिनस्थितोऽप्ययमतीव सेमवाप कीचकस्तापम् ॥ ९२ ॥ एह्येहि वल्लभे लघु विनय कपोलाद्धनाञ्जनं बाष्पम् | इति स जगौ मृगलाञ्छन मागच्छन्मालिनी सुखभ्रान्त्या ॥ ९३ ॥ दैववशेन स्वप्ने सैरन्ध्रीमेकवेलमासाद्य ।
स पुनर्मीलितनयनः सुष्वाप प्राप न पुनस्ताम् ॥ ९४ ॥ धातस्तात तवासनसरोजसंकोचहेतुरयमिन्दुः ।
कुरु राहोर्वपुरखिलं गिलितो न यथा पुनरुदेति ॥ ९९ ॥ शंकर किं करवाणि त्वमेव देवः सदा मया महितः । वहसि किमु शिरसि चन्द्रं न दहसि पुनरप्यमुं कामम् ॥ ९६ ॥ इति विकलवचनरचनापरिचयविधुरीकृताखिलवजनः । गमयामास तमित्रां कष्टमसौ कल्पशतकल्पाम् ॥ ९७ ॥
(विशेषकम् )
मद्यकृते सच्छलया तद्वत्सलया सुदेष्णया बलतः । सैरन्ध्री दुर्नयभयविहित निषेधाप्यथ प्रहिता ॥ ९८ ॥ तरणिं विधाय शरणं कीचकसदनाय तदनु सायाहे । कृष्णा चचाल तस्यां रक्षायै राक्षसं व्यदादर्कः ॥ ९९ ॥ तस्या विलोक्य वदनं सदनं भासां स चन्द्रविम्बमिव । उद्धान्तो जलधिरिव द्विगुणोच्छलदच्छहर्षोर्मिः ॥ १०० ॥
१. 'विरतायां' ख-ग. २. 'तमसाप' ख. ३. 'मुहुर्मी' ख ग ४. 'सदोमया सहितः' ख.
Aho ! Shrutgyanam