________________
४विराटपर्व-१सर्गः] बालभारतम् ।
अबलापि बलवती त्वं यस्या भुजपञ्जरानुशरणरयः । विग्रहरिपुसूर्पकरिपुविशिखभयात्कीचकोऽप्यभवत् ॥ ७६ ॥ तव मुखमिति बत चुम्बति कमलं चक्रौ कुचाविति स्पृशति । कर इति कुमुदं दत्ते हृदि विकलः स किल वापीषु ॥ ७७ ॥ सैरन्ध्रीपदपदवी दवीयसी सपदि देवि परिमुञ्च । नमतु पदाम्बुजयोस्तव तदङ्गनावदनचन्द्रोऽपि ॥ ७८ ॥ परिरम्भदम्भनिभृतं रसय प्रेमामृतं समं तेन । त्रुटदमलहारविगलितमुक्तामिषमुक्तबिन्दुचयम् ॥ ७९ ॥ किशलयकमलकुलैरप्यगलितमुरुमुरसि तस्य परितापम् । स्पर्शगुणेन हरन्ती निरुपमपाणिर्न किं भवसि ॥ ८० ॥ अनुबन्धं रचय स्वयमयमर्थः सिद्धिमेष्यति मृगाक्षि । सोदरपरितापभिदाभ्युदितसुदेष्णावचोभिरपि ॥ ८१ ॥ स्मरशरनिकरव्यतिकरपरिताडनपीडितस्य तस्य भृशम् । यदि जीवितं भवत्कुचदुर्गमदुर्गाधिरोहेण ॥ २ ॥ अमृदितमलयजरसमिव राजतु तदुरो दृढेऽपि परिरम्भे । सुमुखि स्वेदलवादितविदलितनवहारचूर्णेन ॥ ८३ ॥ स्मरतापभेदनौषधपिण्डवदात्मीयकुचयुगं सुमुखि । . तदुरसि बधान धन्ये पृष्ठदृढग्रन्थिभुजपाशम् ॥ ८४ ॥ ईदृक्तापभयं परिरम्भेऽपि न सुभ्रु तस्य कर्तव्यम् ।। स प्रथमं त्वदवेक्षास्वेदजलैर्यास्यति जडत्वम् ॥ ८५ ॥ गणयिष्यति न सुदेष्णां न महीपालं निषेधमपि न तव । अबले बलेन स बली ग्रहीष्यति स्वयमिदं रचय ॥ ८६ ॥ हारं तदुरसि रसिके परिरम्भनिषेधकं सखि द्वेषात् । अन्तः कठिनघनस्तनसंरम्भेण स्वयं दलय ॥ ८७ ॥ कण्ठोपकण्ठमधुना प्राणाः सुदति स्वयं समायाताः।
अयि भवती कण्ठगता प्राणसमा भवतु तस्य जवात् ॥ ८॥ १. शूर्पकः कामरिपू राक्षसः.
-
-
Aho! Shrutgyanam