________________
२१४
काव्यमाला ।
अत्याश्चर्यपरो व्याधमूचे यत्सर्वविद्भवान् । कस्मात्करोषि कर्मेदं सतीवृत्तं च मे वद ॥ १०७ ॥ त्रिकालज्ञा भवन्तीति स्त्रियो याः पतिदेवताः । कुलधर्महतो नापि सर्वज्ञोऽमरवन्दितः ॥ १०८ ॥ नृपोऽहमभवं पूर्वे मारिषं मृगयां गतः । मृगबुद्ध्या ऋषि बीतं जनुषि मृगचर्मणा ॥ १०९ ॥ शप्तो व्याधो भवेतीति तेनेमां गमितो दशाम् । अनुनीतो मया पश्चात्तेनेदं ज्ञानमागतम् ॥ ११० ॥ इत्याकर्ण्य मुनिर्नत्वा निजाचारं गतभ्रमः । व्याधं विज्ञाप्य विधिवत्स्वमाश्रममासदत् ॥ १११ ॥ aroseमेकदा पित्रा ज्ञातवृत्तेन नोदितः । द्विजामिने नित्यं सप्ताहं जीवितावधिः ॥ ११२ ॥ न तं सनत्सुजातीयं कदाचित्पादपल्लवम् । चिरं जीवेति तैरुक्तसान ( ) म्यधत्त मे पिता ॥ ११३ ॥ भवतां वाग्गतिर्देवीरन्योन्यमेकलक्षताम् ।
याति युष्माभिस्तत्कार्यमायुहिनोऽयमर्भकः ॥ ११ 11 सप्ताहं ब्रह्मणो दत्तं जीवितं मे महात्मभिः । आजमीढ ह्यतो वन्द्या नृभिर्नित्यं घरासुराः ॥ ११५ ॥ एवं गतव्यथं कृत्वा दीर्घायुः सुकृताङ्गजम् । स्वपराभवसंतप्तामृतुजां प्रत्यबोधयत् ॥ ११६ ॥ त्वत्तो कृष्णे कुरुश्रेष्ठास्तरिष्यन्ति व्यथाम्बुधिम् । सावित्र्या रक्षितो भर्ता कीनाशवशगः पुरा ॥ ११७ ॥ आयुहनं विदित्वापि वत्रे सत्याच्च सा पतिम् । वनेऽगमत्सहानेन प्राप्ते मृत्युदिने सती ॥ ११८ ॥ पितृनाथो व्रजन्मार्गे सावित्री सत्यप्रीणितः । गृहीत्वा तं वरैः सासुं पतित्रत्यै प्रियं ददौ ॥ ११९ ॥
Aho ! Shrutgyanam