________________
२१५
३वनपर्व-४सर्गः] बालभारतम् ।
पतिनागाद्गुहं साध्वी सहैव व्रतसंभवे । तथैव त्वं प्रियैः प्राप्तराज्यैः प्राप्तासि वैभवम् ॥ १२०॥ इतोऽप्यूचे द्विजः कश्चिद्धामि द्वैतवनागतम् । एष शृङ्गाग्रलग्नां मे हरते हरिणोऽरणीम् ॥ १२१ ॥ अथाश्रु पाण्डवाश्चण्डचापास्तमनुगामिनः । नालोकन्त मृगं सौख्यमिव दुःखामिसेवकाः ॥ १२२ ॥ भूभृत्तटे वने क्वापि विश्रान्ता नकुलोऽम्भसे ।। गतश्विरादनागच्छन्नन्वीये बन्धुभिः क्रमात् ॥ १२३ ॥ क्रमानुगो नृपस्तत्र सरस्तीरे चतुर्मितान् । पतितान्दिग्जयस्तम्भानिव भ्रातृनलोकत ॥ १२४ ॥ ततः किमेतदित्यस्य चिन्तासंतापिचेतसः । संभ्रमाय भुवो भर्तुर्भारती नभसोऽभवत् ॥ १२५ ॥ राजन्यक्षोऽस्मि मत्प्रश्नानभित्त्वेहाम्बुपायिनाम् । मृत्युः स्यादिति तान्भिन्धि पिब चाम्बु यदृच्छया ॥ १२६ ॥ राजोचे बान्धवध्वंसेऽधुना किममुनाम्बुना। तथापि त्वत्प्रियान्प्रश्नान्भेत्स्यामि स्वेच्छया वद ॥ १२७ ।। इत्युक्ते सति राज्ञेति व्योम्नः प्रश्नगिरोऽभवन् । तदुत्तरगिरश्चाशु जगाद जगतीपतिः ॥ १२८ ॥ को देवः स्वीय एवात्मा सद्गुरूक्तिप्रकाशितः । किं दैवं प्राक्तनं कर्म सुदुर्लङ्घयं सुरासुरैः ॥ १२९ ।। को धन्यः क्रियते दास्यं यस्याःविषयाधिपः । कः शुचिः स्नाति यः शश्वत्सत्यवाग्जाह्नवीजलैः ॥ १३०॥ को मोक्षश्चित्तमेव खं सर्वबुद्धिवियोजितम् । का लक्ष्मीः सर्वसंतोषः का विपद्विपुला स्पृहा ॥ १३१ ॥ प्रीतः प्रश्नोत्तरैरेभिरयं जीवतु मद्वरात् ।
तवैकः संमतो भ्राता जाताथ व्योमवागियम् ॥ १३२ ॥ १. 'विटे' ग. २. 'व्योनि' ख. ३. 'इत्युत्तर' ग. ४. 'प्रकाशतः' ग. ५. 'मोक्षः कश्चित्त' क-ग.
Aho! Shrutgyanam